अथ मतम्—नैष शब्दमात्रस्य सामर्थयविभागः ; शब्दस्य हि निजं सामर्थे कार्यनिष्ठतैवतथा हिकाय नियोगार्थः; कार्याय चान्यस्या-; न्वयः प्रतीयते न कार्यस्यान्यार्थेऽन्वयः । तस्मात् कार्यत्वान्नियोगस्यतु तत्प्रधानता । पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् न च नियोगः प्रमाणान्तरगोचरः । तस्मान्न' तत्र प्रयोक्तुमर्हति । विनियो गस्य तु तथाभावात् तत्र युज्यते प्रयोगः । तस्माद्विनियोगप्रधानं पुरुषवचः; वैदिकं तु सामथ्र्येन कार्यत्वान्नियोगस्य तरप्रधानमिति ।
मानान्तरव्यपेक्षत्वात् संभव्यन्यप्रमाणकः । |
यदि पुरुषोऽधिगते विषये वचः प्रयुङ्क्त इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवप्रमाणान्तरोऽस्य विषयः ; न तु संभबत्प्रमाणान्तरविषयत्वात् पुरुषवचोऽपि सापेक्ष छ सापेक्षत्वनिमित्तत्वात् तद्विघस्य विषयस्य ।
तस्मान्मानान्तराद्वा परस्य प्रतिपत्तये । |
खोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभवः, ‘ मयोपलब्धोऽयमर्थः' इत्यर्थः; तेन तत्रोप'लठवे संभवासंभगवेगपेदयेयाताम् । यत्रोपलब्धेर्निश्चयः ‘संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीति ’ इति तत्र प्रामाण्यम् , यथासंपुरुषवचनस्य प्रमाणविषये । यत्र तृपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धदिवाक्येयत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यम् न तु प्रमाणान्तरसंभवात् पुरुषवचनेऽपि तदपेक्षा ।
अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २७ ॥ |
1 B and g omit कार्थत्वात 2 आत्र-A 6A |
3 A adde स्व 4 तेन तस्यां--A |
5 लब्धिसंभवासंभवावपेयेते--A |