पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
84
ब्रह्मसिद्धिः

अत एव च पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दर्शिते पौरुषेयत्वनिराकरणप्रयत्नेन – 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः ” इति; औत्पत्तिके शब्दार्थसंबन्धेऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्न शब्दादर्थावगतिरिति निरपेक्षत्वम् । ननु प्रमाणान्तरासं मपेऽपि कृत एव यत्नः - 'सत्संप्रयोगे ” इति । सत्यम; चोदनैव प्रमाणम्, नान्यत्--इत्यवधारणसिद्धये, न तु-प्रमाण- मेव इति । ( , अथ प्रमाणान्तरसंभवेऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, कोऽर्थः प्रमाणान्तरनिराकरणेन ? धमेतत्वज्ञानम् प्रमाणान्तरसंभवे हि सर्वज्ञामिमत बुद्धघुपदिष्टोऽपि धर्मः प्रतीयेत ; तत्र न धर्मतत्वमवघारितं स्यात्; तदव धारणार्थश्चयं यत्नः । चोदनाप्रामाण्यमपि तदर्थं , नाटष्टाय । अथवा मृग्यत तद्रांघाचदनाया बाघः संशयो तुल्यबलवे, तेन यत्, वा तस्यासंभवः प्रतिपाद्यते ; न तु तसँभवात् सापेक्षतेति । ननु , तदभावोऽपेक्षणीयः स्यात् ; कामम्; न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति; यतः यदर्थस्य प्रतिपादकम् उ न तु तदपेदयते यदपेक्ष्यते न तदर्थं प्रतिपाद- यति । न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः विरोधिसंमवमात्रेण । नाप्रामाण्ये प्रत्यक्षमदीनामपि तत् स्यात् । अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वेऽप्यपरिहार्यम्, कर्तव्यताहारेण भूतार्थप्रतिपत्तेरिष्टत्वात्; तत्र तु प्रमाणान्तरविरोधसंभावनात् । भूतार्थस्य प्रमाणान्तरविषयत्वात् तेन कार्यनिष्ठता वर्यवे ; प्रमाणान्तरविषयत्वे किलानुवादत्वात् प्रमाणान्तरापेक्ष मर्थं प्रतिपादयति- -प्रमाणान्तरेणायमधिगतः इति, न स्वातन्त्र्येण ; कार्य- निष्ठत्वे तु सातयेण, तस्य प्रमाणान्तरागोचरत्वात् । उक्तेन प्रकारेण न सापेक्षत्वमिति भूतार्यमपि सापेतं नाशेऽपुरुषबुद्धिजम्’ इति सुद्युक्तम् ।

अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।
किमायातं विधेः सापि त्वस्यादिः सुलभा के न ॥ २९ ॥


1 EG. 1-1-5A

2 धि--A

3 MmSu. -1.4

4 A add क

5 A omits त्व

6 न:-B