पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
82
ब्रह्मसिद्धिः

लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नवीरन् । अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकःतेन तत्र सापेक्षता, वेदे तु साध्य साधनभावोऽपि न पुरुषविवक्षापूर्वक इत्यनपेक्षत्वम् । ये वा विषयनियो- ज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये ; वेदे तु न केवलं नियोगोऽपुरुषबुद्धिपूर्वकः ; सोऽपीत्यनपेक्षत्वम् । उच्यते-

लुबुद्धिपूर्वतैवेयं हन्तापेक्षानिबन्धनम् ।
मानान्तरासंभवेऽपि ततः सापेक्षता यतः ॥ २१ ॥

असं मधप्रमाणान्तरकार्यनिष्ठेऽपि चेद्वाक्ये पुरुषसंबन्धात् सापेक्षत्वम् पुरुष बुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षकारणमन्वयव्यतिरेकाभ्याम्; तद्भवे लोके सापेक्षत्वात् , तदभावे वेदे निरपेक्षत्वात् ; न विषये प्रमाणान्तरसंमवः, तद भावेऽपि लोकनियोगे सापेक्षत्वदर्शनात् । अथ मतम्

वेदे नियोगनिष्ठत्वं विनियोगप्रधानता ।
लोके वेदे न व्यपेक्षा तल्लोके च व्यपेक्षणम् ॥ २२ ॥

नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् साध्यसाधनभावानष्टं तु लौकिकं वचः'स प्रमाणान्तर विषय इति

न शब्दमात्रसामथ्र्यप्रविभागोऽयमीदृशः ।
लेवगतसामर्थः शब्दो वेदेऽपि बोधकः ॥ २३ ॥

न तावदयं शब्दमात्रस्यानपेक्षितंपुरुषसंबन्धसंबन्धस्य शुक्तिप्रविभागः यदेकत्र नियोगः शब्दार्थः अन्यत्र विनियोगः, यथा गोशब्दस्य साखा- दिमान् , अश्वशब्दस्य केसरादिमान्; यतो लोकाधिगतसामथ्र्यो वेदेऽपि प्रतिपादकः; लोके चेद्विनियोगः शब्दार्थःतत्रैवास्य सामर्थमवगतम्, न नियोगे ; तत्र बेवेऽपि विनियोग एव प्रमाणर्यः स्यात् ।

अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुषो वचः ।
अर्यं तत्तेन तन्निष्ठमितरवन्या स्थितम् ॥ २४ ॥


1 opmid वणः

2 स -AL

3 A adds स्य

4 omit = सन्भ