लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नवीरन् । अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकःतेन तत्र सापेक्षता, वेदे तु साध्य साधनभावोऽपि न पुरुषविवक्षापूर्वक इत्यनपेक्षत्वम् । ये वा विषयनियो- ज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये ; वेदे तु न केवलं नियोगोऽपुरुषबुद्धिपूर्वकः ; सोऽपीत्यनपेक्षत्वम् । उच्यते-
लुबुद्धिपूर्वतैवेयं हन्तापेक्षानिबन्धनम् । |
असं मधप्रमाणान्तरकार्यनिष्ठेऽपि चेद्वाक्ये पुरुषसंबन्धात् सापेक्षत्वम् पुरुष बुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षकारणमन्वयव्यतिरेकाभ्याम्; तद्भवे लोके सापेक्षत्वात् , तदभावे वेदे निरपेक्षत्वात् ; न विषये प्रमाणान्तरसंमवः, तद भावेऽपि लोकनियोगे सापेक्षत्वदर्शनात् । अथ मतम्
वेदे नियोगनिष्ठत्वं विनियोगप्रधानता । |
नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् साध्यसाधनभावानष्टं तु लौकिकं वचः'स प्रमाणान्तर विषय इति
न शब्दमात्रसामथ्र्यप्रविभागोऽयमीदृशः । |
न तावदयं शब्दमात्रस्यानपेक्षितंपुरुषसंबन्धसंबन्धस्य शुक्तिप्रविभागः यदेकत्र नियोगः शब्दार्थः अन्यत्र विनियोगः, यथा गोशब्दस्य साखा- दिमान् , अश्वशब्दस्य केसरादिमान्; यतो लोकाधिगतसामथ्र्यो वेदेऽपि प्रतिपादकः; लोके चेद्विनियोगः शब्दार्थःतत्रैवास्य सामर्थमवगतम्, न नियोगे ; तत्र बेवेऽपि विनियोग एव प्रमाणर्यः स्यात् ।
अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुषो वचः । |
1 opmid वणः 2 स -AL |
3 A adds स्य 4 omit = सन्भ |