अथ शब्दसंभवेऽपि न तत् सापेक्षम्; तत्संभवेऽपि न शब्दस्य सापे क्षता, विशेषाभावात् । अपि च
प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ १७ ॥ । । |
संभवमात्रेण सापेक्षत्वे प्रत्यक्ष नुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वा दप्रामाण्यप्रसङ्गः । तथा सतागुणत्वद्रव्येष्वनेकेन्द्रियग्रावेष्विन्द्रियान्तराण- मिन्द्रियान्तरसापेक्षत्वप्रसङ्गः । अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः । प्रमाणान्तरादधिगतार्थत्वदर्शनादिति चेत् , उक्तमत्र यदि शब्दमात्रधर्मेऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्युद्धदिवाक्यवदभ्रा- माण्यं प्राप्नोति, संभवे स्विन्द्रियविषये प्रत्ययितपुरुषवेचोवद्युज्यते प्रामाण्यम् ; यथोक्तम् — £तच्चेत् प्रत्ययितात् पुरुषादिन्द्रियविषयं वा, अवितथमेव तत” इति ; अथ पौरुषेयेशब्दधर्मोऽयम् न संभवस्रमाणान्तरविषयस्याप्य पौरुषेयस्य शब्दस्य सापेक्षत्वम् । अपि च प्रत्यक्षाधिगतविषयं किंचिदनु मानमिति न सामान्यतो दृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चगमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षे तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदनेऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि ; अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् । अपि च
असंभवादौषधादेनियोगस्यानपेक्षता। |
यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवद्देदवचसां तन्निष्ठानामनपेक्षत्वम्
ज्वरवियोगकाम इदमौषधं पिबेत् ’, ‘स्वर्गकामः सिकता भक्षयेत् ’ इति
1 भावादिति-A 2 शेषः--B and C 3 सत्वगुशत्व-B and c |
4 गतार्थत्वादिति-B and C 5 A omits पुरुप |
6 Sabara bhiya 1-1-2 |