पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 गणितसारसङ्ग्रहः

द्विगुणोऽभवद्वितीयः प्रथमं चत्वारि षट् तृतीयमगात् ।
त्रिगुणं तृतीयपुरुषः प्रथमं पञ्च द्वितीयं च ॥ २५४(१/२) ॥

षट् प्रार्षीत्पञ्चकगुणः स्वहस्तस्थितानि कानि स्युः ।
कथयाशु चित्रकुटीमिझी जानासि यदि गणक ॥ २५५(१/२) ॥

पुरुषास्त्रयोऽतिङशलाश्चान्योन्यं याचितं धन प्रथमः ।
स द्वादश द्वितीयं त्रयोदश प्रार्थे तत्रिगुणः ॥ २५६(१/२) ॥

प्रथमं दश त्रयोदश तृतीयमभ्यर्थं च द्वितीयोऽभूत् ।
पञ्चगुणितो द्वितीयं द्वादश दश याचयित्वाद्यम् ॥ २५७(१/२) ॥

सप्तगुणितस्तृतीयोऽभवन्नरो वाञ्छितानि लब्धानि ।
कथय सखे विगणय्य च तेषां हस्तस्थितानि कानि स्युः॥ २५८(१/२) ॥

अन्त्यस्योपान्त्यतुल्यधनं दत्त्वा समधनानयनसूत्रम्—

वाञ्छाभक्तं रूपं स उपान्त्यगुणः सरूपसंयुक्तः ।
शेषाणां गुणकारः सैकोऽन्यः करणमेतत्स्यात् ॥ २५९(१/२) ॥

अत्रोद्देशकः ।

वैश्यात्मजास्त्रयस्ते मागेगत ज्यष्ठमध्यमकांनष्ठः ।
स्वधने ज्येष्ठो मध्यमधनमात्रं मध्यमाय ददौ ॥ २६०(१/२) ॥

स तु मध्यमो जघन्यजधनमात्रं यच्छति स्माय ।
समधनिकाः स्युस्तेषां हसगतं ब्रूहि गणक संचिन्त्य ॥ २६१(१/२) ॥

वैश्यात्मजाश्च पञ्च ज्येष्टादनुजः स्वकीयधनमात्रम् ।
लेभे सर्वेऽप्येवं समवित्ताः किं तु हस्तगतम् ॥ २६२(१/२) ॥