पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 99

वणिजः पञ्च स्वस्वाद घी पूर्वस्य दत्त्वा तु ।
समवित्ताः सञ्चिन्त्य च किं तेषां बूहि हस्तगतम् ।। २६३(१/२) ॥

वणिजष्षट् खधनाद्वित्रिभागमात्रं क्रमेण तज्येष्ठाः ।
स्वस्वानुजाय दत्त्वा समवित्ताः कि च हस्तगतम् ॥ २६४(१/२) ॥

परस्परहस्तगतधनसङ्ख्यामात्रधनं दत्त्वा समधनानयनसूत्रम्—

वाञ्छाक्षक्तं रूपं पदयुतमादावुपयुपयेतत् ।
संस्थाप्य सैकवाञ्छागुणितं रूपोनमितरेषाम् ।। २६५(१/२) ॥

अत्रोद्देशकः ।

वणिजस्त्रयः परस्परकरस्थधनमेकतोऽन्योन्यम् ।
दत्त्वा समवित्ताः स्युः कि स्यादस्तास्थितं द्रव्यम ।। २६६(१/२) ॥

वणिजश्चत्वारस्तेऽप्यन्योन्यधनार्धमात्रमन्यस्मात् ।
खछित्य परस्परतः समवित्ताः स्युः कियत्करस्थधनम् ।। २६७(१/२) ॥

जयापजययोलोभानयनसूत्रम् -

स्वस्वच्छेदांशयुती स्थाप्यध्वधयतः क्रमात्क्रमशः ।
अन्योन्यच्छेदांशकगुणतौ वज्नापवर्तनक्रमशः ॥ २६८(१/२) ॥

छेदांशक्रमवत्स्थिततदन्तराभ्यां क्रमेण सम्भक्तौ ।
स्वांशहरन्नान्यहरौ वाञ्छाभौ व्यस्ततः करस्थमितिः ॥ २६९(१/२) ॥

अत्रोद्देशकः ।

दृष्ट्वा कुकुठयुद्धे प्रत्येकं तौ च कुक्कुटिकौ ।
उक्तौ रहस्यवाक्यैर्मन्त्रौषधशक्तिमन्महापुरुषेण ॥ २७०(१/२) ॥