मिश्रकव्यवहारः 97
हस्तस्थधनादन्यास्त्रिगुणं किं करगतं च पोष्टलकम् ॥ २४४(१/२) ॥
मार्गे नरै श्चतभिः पोट्टलकं दृष्टमाह तत्राद्यः ।
पोट्लकामदं लब्ध्वा ह्यष्टगुणोऽहं भविष्यामि ॥ २४५(१/२) ॥
खकरस्थधनेनान्यो नवसङ्गणितं च शेषधनात् ।
दशगुणधनवानपरस्त्वेकादशगुणतधनवान् स्यात् ।
पोट्टलकं किं करगतधनं कियद्वाहेि गणकाशु ।। २४७ ।।
मा नरैः पोह्लकं चतुभीष्टं हि तस्यैव तदा बभूवुः ।
पञ्चांशपादार्धतृतीयभागास्तद्वित्रिपञ्चस्रचतुर्गुणश्च ॥ २४८ ॥
मार्गे त्रिभिर्वणिग्भिः पोट्टलकं दृष्टमाह तत्राद्यः ।
यद्यस्य चतुर्भागं लभेऽहमित्याह स युवयोर्डिगुणः ॥ २४९ ॥
आह त्रिभागमपरः स्वहस्तधनसाहितमेव च त्रिगुणः ।
अस्यार्थं प्राप्याहं तृतीयपुरुषश्चतुर्नधनवान् स्याम् ।
आचक्ष्व गणक छं कि हस्तगतं च पोट्टलकम् ॥ २५०(१/२) ॥
याचितरूपैरिष्टगुणकहस्तगतानयनस्य सूत्रम्-
याचितरूपैक्यानि स्वसैकगुणवर्धितानि तैः प्राग्वत् ।
हस्तगताना नीत्वा चेष्टगुणनेति सूत्रेण ॥ २५१(१/२) ॥
सदृशच्छद कृत्वा सेकंष्टगुणाहृतष्टगुणयुत्या ।
रूपमेनितया भक्तान् तानेव करस्थितान् विजानीयात् ॥ २५२(१/२) ॥
अत्रोद्देशकः ।
वैश्यैस्त्रिभिः परस्परहस्तगतं याचितं धनं प्रथमः ।
चत्वार्यथ द्वितीयं पञ्च तृतीयं नरं प्रावें ॥ २५३(१/२) ॥
1 M and B read स्यु:; and it is obviously inappropriate.