पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 गणितसारसङ्ग्रहः

एकात्रिपञ्चमिश्रितविंशतिरिह कालमूलयोर्मिश्रम ।
षड् दश चतुर्दश स्युलभाः किं मूलमत्र साम्यं स्यात् ॥ ५२ ॥

पञ्चत्रिंशन्मित्रं सप्तत्रिंशच्च नवयुतत्रिंशत् ।
विंशतिरष्टाविंशतिरथ षट्त्रिंशच्च यद्विधनम् ॥ ५३ ॥

उभयप्रयोगमूलानयनसूत्रम् -
रूपस्येच्छकालादुभयफले ये तयोर्विशेषेण।
लब्धं विभजेन्मूलं स्वपूर्वसङ्कल्पितं भवति ॥ ५४ ॥

अत्रोद्देशकः ।
उवृत्त्या षट्शते प्रयोजितोऽसौ पुनश्च नवकशते ।
मासैस्त्रिभिश्च लभते नैकाशीतिं क्रमेण मूलं किम् ॥ ५५ ॥

त्रिशुद्धचैव शते मासे प्रयुक्तश्चाष्टभिश्शते ।
लाभोऽशीतिः कियन्मूलं भवेत्तन्मासयोर्धयोः ॥ ५६ ॥

वृद्धिलविमोचनकालानयनसूत्रम्
मूलं स्वकालगुणितं फलगुणितं तत्प्रमाणकालाभ्याम् ।
भक्तं स्कन्धस्य फलं मूलं कालं फलात्प्राग्वत् ॥ ५७ ॥

अत्रोद्देशकः ।

मासे हि पश्यैव च सप्ततीनां
मासद्वयेऽष्टादशकं प्रदेयम् ।
---
This sane rule is somewhat dofeotively stated again with a modihotion
in eading thus:
पुनरप्युभयप्रयागमूलानयनसूत्रम्--
इच्छाकालादुभयप्रयोगवृद्धिं समानीय ।
तद्वदयन्तरभक्तं लब्धं मूलं विजानीयात् ॥