पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 71

च संपीड्य तन्मिश्रराशौ प्रमाणराशेः वृद्धिविभागानयनसूत्रम्-

कालगुणितप्रमाणं परकालहृतं तदेकगुणमिश्रधनात् ।
इतरार्धछतियुतात् पदमितराधनं प्रमाणफलम् ॥ ४४ ॥

अत्रोद्देशकः ।

मासचतुष्कशतस्य प्रनष्टदृष्टिः प्रयोगमूलं तत् ।
स्वफलेन युतं द्वादश पञ्चकृतिस्तस्य कालोऽपि ॥ ४५ ॥

मासत्रितयात्यः प्रनष्टवृद्धिः स्वमूलफलराशेः ।
पञ्चमभागेनोनाश्चाष्टौ वर्षेण मूलवुडी के ॥ ४६ ॥

समानमूलवृद्धिमिश्रविभागसूत्रम् -

अन्योन्यकालविनिहतामिश्रविशेषस्य तस्य भागाख्यम् ।
कालविशेषेण हृते तेषां मूलं विजानीयात् ॥ ४७ ॥

अत्रोद्देशकः ।

पञ्चाशदष्टपञ्चशान्मिथं षषष्टिरेव च।
पञ्च सप्तैव नव हि मासाः किं फलमानय ॥ ४८ ॥

त्रिंशच्चैकत्रिंशद्दिव्यंशाः स्युः पुनत्रयात्रशत् ।
सज्यंशा मिश्रधनं पञ्चत्रिंशच्च गणकादात् ॥ ४९ ॥

कश्चिन्नरश्चतुर्णा त्रिभिश्चतुर्भिश्च पञ्चभिः षभिः।
मासैर्लब्धं किंस्यान्मूलं शीर्थो ममाचक्ष्व ॥ ५० ॥

समानमूलकालमिश्रविभागसूत्रम्-

अन्योन्यवृद्धिसङ्गणमिश्रविशेषस्य तस्य आगाख्यम् ।
वद्विविशेषेण हते लब्धं मूलं बुधाः प्राहुः ॥ ५१ ॥