पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 73

स्कन्ध चतुर्भिस्सहिता त्वशीतिः
मूलं भवेत्को नु विमुक्तिकालः ॥ ५८ ॥

पन्ना मासिकवृद्धिः पचैव हि मूलमपि च पञ्चत्रिंशत् ।
मासांत्रतयं स्कन्धे त्रिपञ्चकं तस्य कः कालः ।। ५९ ।।

समानदृहिमूलमिश्रविभागसूत्रम्--

मूलैः स्वकालगुणितैटीडिविभक्तैस्समासकौर्वभजेत् ।
मित्रं स्वकालनिनं वृद्धिर्तुलानि च प्राग्वत् ॥ ६० ॥

अत्रोद्देशकः ।

द्विकषट्चतुश्शतके चतुस्सहधं चतुश्शतं मिश्रम् ।
मासद्वयेन वृद्धया समनि कान्यत्र मूलानि ॥ ६१ ॥

त्रिकशतपञ्चकसप्ततिपादोनचतुष्कषष्टियोगेषु ।
नवशतसहस्रसङ्ख्या मासत्रितये समा युक्ता ॥ ६२ ॥

विमुक्तकालस्य मूलानयनसूत्रम्--

स्कन्धं स्वकालभक्तं विमुक्तकालेन ताडितं विभजेत् ।
निर्मुक्तकालयुद्धया रूपस्य हि सकया मूलम् ॥ ६३ ॥

अत्रोद्देशकः ।

पचकशतप्रयोगे मास डॉ स्कन्धमष्टकं दत्वा ।
मासैष्षष्टिभिरिह वै निर्मुक्तः कि भवेन्मूलम् ॥ ६४ ॥

दौ सत्रिपञ्चभागौ स्कन्धं द्वादशदिनैर्ददात्येकः ।