रूपस्य प्रियस्य प्रीतिविषयस्य दुष्टत्वं दुःखसाधनत्वं विवेकतो दोषविचारेण वेत्ति जानाति ॥ ६४॥
तत्र पुत्रे दोषविचारप्रकारं दर्शयति, अलभ्येति ।
अलभ्यमानस्तनयः पितरो क्लेशयेच्चिरम् । |
तनयः तनोति कुलमिति तनयः स्पष्टमन्यत् । एवं प्रेमास्पदत्वेनाभिहितेन पुत्रेण पित्रोः दुःखस्य अंतो नास्ति । अजातो जातोऽपि पुत्रोऽमितसंतापकारण- मित्यर्थः ॥ ६७ ॥
एवं विविच्य जिज्ञासुरनात्मनि प्रीतिं परित्यज्यात्मन्येव तां करोतीत्याह, एवमिति ।
एवं विविच्य पुत्रादैौ प्रीतिं त्यक्त्वा निजात्मनि । |
स्पष्टोऽर्थः ।। ६८ ॥
प्रियं त्वां रोत्स्यतीत्युत्तरं प्रतिवादिने कथं शापायंते इत्याशंक्याह, आग्रहेति।
आग्रहाद्रह्मविद्वेषादपि पक्षममुचतः। |
पुत्रादिः प्रेयानिति स्वपक्षसंरक्षणे आग्रहात् अभिनिवेशात् यद्वा ब्रह्मविद्द्वेषादपि ब्रह्म सत्यं जगन्मिथ्येति यो वेत्ति स ब्रह्मवित्तस्मिन् स्वमतविरोधित्वात्