पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
५०७
कल्याणपीयूषव्याख्यासमेता

 स्पष्टोऽर्थः ॥ ६१ ॥

 तं विवादं विशदयति, साक्षीति ।

साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् ।
प्रेयान् पुत्रादिरेवेमं भोक्तुं साक्षीति मूढधीः ॥ ६२ ॥

 अन्यस्माद्दृश्यात् द्वैतात् साक्षी एव प्रत्यगात्मैव प्रेयानिति तत्त्ववित्। ज्ञानी आह । पुत्रादिरेव पुत्रवित्तजायादय एव प्रेयांस इमं द्वैतप्रपंचं भोक्तुं साक्षी भवतीति मूढधीराह ॥६२॥

 स मूढधीः जिज्ञासुः जिगीषुर्वा स्यादिति विकल्प्य तदनुरूपं समाधान प्रकारमाह, आत्मन इति ।

आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि ।
तस्योत्तरं वचो बोधशापैौ कुर्यात्तयोः क्रमात् ॥ ६३ ॥

 मूढधीः शिष्यः शासितुं योग्यः प्रतिवाद्यपि आत्मनः अन्यं व्यतिरिक्तं पुत्रादिरूपं प्रियं प्रेमविषयं ब्रूते । तयोः शिष्यप्रतिवादिनो: बोधशापैौ क्रमात् । तस्य उत्तरं वचः प्रतिवचनं कुर्यात् । जिज्ञासुं बोधेन समाहितं जिगीषुं शापेन पराभूतं च कुर्यात् ॥ ६३॥

 निरुक्तश्रुतेस्समनन्तरवाक्यार्थपठनेन बोधशापात्मकमुत्तरमेकवाक्येन वाक्ति, प्रियमिति ।

प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् ।
स्वोक्तप्रियस्य दुष्टत्वं शिष्यो वेत्ति विवेकतः ॥ ६४ ॥

 तत्त्ववित् शिष्यप्रतिवादिनावुभावपि प्रियं तवाभिमतं वित्तपुत्रादिकं । त्वां रोत्स्यति रोदनं कारयिष्यति “स योन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यती"त्येव (बृ. १.8.८) मुत्तरं प्रतिवचनं वक्ति । शिष्यपतिवादिनोः प्रतिवचनरूपमेकं वाक्यं कथं ताभ्यां प्रतिगृहीतमित्याशंक्य यथा शिष्येणावबुद्धं तत्सार्धश्लोकचतुष्टयेन द्योतयति । स्वोक्तेति । स्वोक्तपियस्य स्वेनोक्तस्य पुत्रादि