सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
५०९
कल्याणपीयूषव्याख्यासमेता

द्वेष: तस्मादपि स्वस्य पक्षम् । अमुंचतोऽपरित्यजतः प्रतिवादिनः नरकः । नरान् कायति आक्रंदयतीति नरकः दुःखपरंपरेत्यर्थः । क्रियाकारकसंकुलस्य द्वैतस्य फलभूतो बहुयोनिषु दोषश्च इष्टवियोगानिष्टप्राप्तिफलकजन्मरूपदोषश्च प्रोक्तः ॥ ६९॥

 एकस्यैकस्य जिज्ञासुजिगोषोर्विवेकनरककारकत्वे उपपत्तिविवक्षया “ईश्वरो हि तथैव स्यात्" (बृ. १.४.८.) इति समनन्तरवाक्याथमाह, ब्रह्मेति ।

ब्रह्मविद्ब्रह्मरूपत्वादीश्वरस्तेन वर्णितम् ।
यद्यत्तत्तथैव स्यात्तच्छिष्यप्रतिवादिनोः ॥ ७० ॥

 यस्मात् ब्रह्मवित् ब्रह्मरूपत्वात् “ब्रह्म वेद ब्रह्मैव भवती"ति (मुं. ३.२.९) श्रुतेः स ईश्वरः शापानुग्रहसमर्थः । अतः तेन वर्णितं यद्यदिष्टमनिष्टं वा तत्तच्छिष्यप्रतिवादिनोः तथैव स्यात् ब्रह्मविदभिप्रायनुसारेण शिष्यस्येष्टं प्रतिवादिनोऽनिष्टं स्यादित्यर्थः ॥ ७० ॥

 एतावत्पर्यन्तं व्यतिरेकमुखेनोपदिष्टार्थस्यान्वयमुखेन प्रतिपादकं “आत्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते सहास्य प्रियं प्रमायुकं भवती"ति (बृ. १.४.८.) समनन्तरश्रुतिवाक्यार्थं संक्षिपति, यस्त्विति ।

यस्तु साक्षिणमात्मानं सेवते प्रियमुत्तमम् ।
तस्य प्रेयानसावात्मा न नश्यति कदाचन ॥ ७१ ॥

 यस्त्वनात्मप्रियवादिनो विलक्षणो विहायान्यत्प्रियं सर्वब्यवहारसाक्षिणं अत एव उत्तमं अत एव निरतिशयप्रेमास्पदं आत्मानं सेवते आत्मैव प्रियोनान्योऽस्तीति निश्चित्य चिन्तयति तस्य प्रेयान् आत्मा प्रतिवाद्यभिमतप्रियमिव न कदाचन नश्यति । अपि तु सर्वदाऽऽनन्दरूपोऽवभासत इति भावः ॥ ७१॥

आत्मनः परमानन्दरूपत्वकथनम् ।

 एवमात्मनः परमप्रेमास्पदत्वमुपपद्य तेन परमानन्दरूपत्वं साधयति, परेति।

परप्रेमास्पदत्वेन परमानन्दरूपता