पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२० छन्दश्चित्युत्तराध्यायः आद्यादनन्तरोऽधः कल्प्योऽन्यतुल्यमाद्यः प्राक् । न्यासो वर्गोऽन्योनः प्रस्तारोऽसमविषमाणाम् ॥ १२ ॥ नष्टेऽन्त्यात् स्वाधस्थोनकल्पघतोऽर्धतुल्यविषमाणाम् । व्येकः पृथक् स्वबर्नाडुतः फलं तुल्यकल्पान्नाम् ।। १३ । उद्दिष्टे कल्पहृतेऽतीतैः प्रथमः फले स्वरूपेऽन्यः । असकृद्वर्गाशयुते सैके वार्धसमविषमाणाम् ।। १४ ।। कल्पेष पृथक् गुरुलघु संख्यैकाविभाजिता प्राग्वत् । विषमेष्वाद्यलधूनो लघुभिर्मोहः समादीनाम् ॥ १५ ॥ एकद्वितयोः परतो द्विसगुणोऽनन्तराद्विरूपोऽधः । वर्गधराद्योनोवलसमविषमाणां ध्वजो लघुभिः ।। १६ ।। लघुसंख्या पददलिता परतोऽधोऽधश्च शुध्यति हृता यैः। द्विगुणान्तैः शुद्धेर्वर्गपरैर्मन्दरो लघुभिः ।। १७ ।। कृत्वाऽधोऽधः कल्प्यन्येकाद्येकोत्तरानधस्तेषाम् । स्वात्परतोऽन्यैक्यमधः प्रस्तारादुक्तवदिहाडैः ॥ १८ ।। शुरुषष्टचेकानि घटीद्विगुणान्येकांगुलानि संख्या स्यात् । द्वाविशतिरार्याणां छन्दशित्युत्तरोऽध्यायः ॥ १७ ॥ इति श्रीब्राह्मस्फुट सिद्धान्ते छन्दश्वित्युत्तरोऽध्यायो विंशतितमः ।। २० ।।