पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ स्फुटगति वासना । तत्रादौ स्पष्टीकरणे छेद्यकमाह। कक्षामण्डलमध्यं भूमध्ये मध्यमः स्वकक्षायाम् । अनुलोमं मन्त्रोच्चात् प्रतिलोमं भ्रमति शीघ्रोच्चात् ॥ २४ ॥ सुः भा.-भूमध्ये कक्षामण्डलस्य मध्यं केन्द्रमस्ति । मध्यमो ग्रहः स्वकक्षा यां प्रतिवृत्ते मन्दोच्चादनुलोमं शीघ्रोच्चाच्च प्रतिलोमं भ्रमति । ‘भूमेर्मध्ये खलु भूवलयस्यापि मध्यम्’ –इत्यादिना तथा ‘मन्दोच्चितोऽग्र प्रतिमण्डले प्राग्ग्रहोऽनु लोमं निजकेन्द्रगत्या'-इत्यदिना भास्करविधिनाऽपीयमेव स्थितिः ।२४।। वि. भा.भूमध्ये (भूकेन्द्र) कक्षावृत्तस्य केन्द्रमस्ति, मध्यमो ग्रहः स्वकक्षायां (प्रतिवृत्ते) मन्दोच्चादनुलोमं शीघ्रोच्चाच्च विलोमं भ्रमति । मन्दोच्चादनुलोमं राश्यादिगणनयाऽग्रतः शीघ्रोच्चाच्च विलोमत इति राश्यादिगणनया पृष्टतो यथोत्तरं भ्रमति । ग्रहगत्यपेक्षया शीघ्रोच्चगतिर्महतो भवतीति तत्र यदि शीघ्रोच्च स्थिरं मन्यते तदा ग्रहो विपरीतगमन इव लक्ष्यते । मन्दोचस्य चालक्ष्याल्पगतित्वात् सदैव ग्रहो राश्यादिगणनया अनुगामी भवतीति । सिद्धान्त शेखरे "मध्य: स्वकक्षा परिधौ स्फुटस्तु स्वकेन्द्रवृत्ते भ्रमति खुचारी । स्वमन्दतुङ्गादनुलोमगत्या विलोमतो याति च शीघ्रतुङ्गा’ श्रीपतिनैवं कथितम् । अत्र लल्लः--'अनुलोमं निजमन्दात् प्रतिलोमं गच्छति स्वशीघ्रोच्चात् । कक्षावृत्ते मध्यः स्वकेन्द्रवृत्ते ग्रहाः स्पष्टाः ।। " स्वकेन्द्रवृत्ते (स्वीये प्रतिवृत्ते)। भास्करश्च ‘मन्दोच्चतोऽग्रे प्रतिमण्डले प्राक् ग्रहोऽ नलोमं निजकेन्द्रगत्या । शीघ्राद्विलोमं भ्रमतीव भाति विलम्बितः पृष्ठत एव यस्मात्” एवमेव ग्रहभ्रमणव्यवस्थां प्रतिपादयतीति ।। २४ ।। अब स्फुटगति वासना प्रारम्भ की जाती है। उसमें पहले स्पष्टी करण में छेद्यक को कहते हैं। हि. भा--भूकेन्द्र कक्षावृत्त का केन्द्र है । मध्यमग्रह अपनी कक्षा में मन्दोच्च से अनुलोम (क्रमिक) और दोस्रोध से विलोम (उल्टा) भ्रमण करते हैं मन्दोच से अनुलोम अर्थाद राश्यादि गणना से आगे और शीघ्रोच से विलोम अर्थात् राश्यादि गणना से पीछे भ्रमण करते हैं । ग्रहगति की अपेक्षा शीघ्रोधगति अधिक हैं यदि शीघ्रोची को स्थिर माना जाय तो ग्रह विपरीत चलते हुए लक्षित होते हैं । मन्दोच की अत्यन्त अल्प गति के कारण राश्यादि गणना से ग्रह सर्वदा अनुगामी होते हैं । सिद्धान्त शेखर में ‘मध्यः स्वकक्षा परिधौ