कौषीतकिब्राह्मणम्/अध्यायः १५
← अध्यायः १४ | कौषीतकिब्राह्मणम् अध्यायः १५ [[लेखकः :|]] |
अध्यायः १६ → |
सोमयागः( माध्यन्दिनसवनम् ) |
१५.१ ग्रावस्तुत्कर्म
देवा वा अर्बुदेन च पावमानीभिश् च ग्राव्णो अभिष्टुत्या आप्नुवन्न् अमृतत्वम् । आप्नुवन्त् सत्यम् संकल्पम् । तथो एव एतद् यजमानो यद् अर्बुदेन च पावमानीभिश् च ग्राह्णो अभिष्टौत्य् आप्नोत्य् अमृतत्वम् । आप्नोति सत्यम् संकल्पम् । अथ स्तुते पवमाने दधि घर्मेण चरन्ति । अत्र कालो हि भवति । अथो सवनस्य एव सरसतायै । अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् । भारद्वाज्या मध्यंदिने प्रस्थितानाम् यजति । भरद्वाजो ह मध्यंदिन इन्द्राय सोमम् प्रददौ । सा वा ऐन्द्री त्रिष्टुब् भवति । आहुतीनाम् प्रतिष्ठित्यै । अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् । अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् । हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते । अथो दक्षिणाभिर् वै यज्ञम् दक्षयति । तद् यद् दक्षिणाभिर् वै यज्ञम् दक्षयति । तस्माद् दक्षिणा नाम । आत्म दक्षिणम् वै सत्रम् । तस्माद् अहर् अहर् जपेयुः । इदम् अहम् माम् कल्याण्यै कीर्त्यै स्वर्गाय लोकाय अमृतत्वाय दक्षिणाम् नयन्ति । वैश्वामित्रीम् मरुत्वतीय ग्रहस्य पुरोनुवाक्याम् अनूच्य वैश्वामित्र्या यजति । सवन ततिर् वै मरुत्वतीय ग्रहः । वाग् वै विश्वामित्रः । वाचा यज्ञस् तायते । ते वा ऐन्द्र्यौ त्रिष्टुभौ भवतः । ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै ।
१५.२ मरुत्वतीयशस्त्रम्
अथ षड्विधम् मरुत्वतीयम् शंसति । षड् वा ऋतवः संवत्सरः । (माध्यंदिन सवन) संवत्सरस्य एव आप्त्यै । अनुष्टुभम् गायत्रीम् बृहतीम् उष्णिहम् त्रिष्टुभम् जगतीम् इति षट् छन्दांसि शंसति । तस्मात् षड्विधम् भवति । [१]आ त्वा रथम् यथोतय इत्य् अनुष्टुभा मरुत्वतीयम् प्रतिपद्यते । पवमान उक्थम् वा एतद् यन् मरुत्वतीयम् । अनुष्टुप् सोमस्य छन्दः । उक्तम् पद विग्रहणस्य ब्राह्मणम् । गायत्रीः शंसति । प्राणो वै गायत्र्यः । प्राणम् एव तद् आत्मन् धत्ते । [२]इदम् वसो सुतम् अन्ध इत्य् अनुचरः सुतवान् पीतवान् । पवमान उक्थम् ह्य् एतत् । [३]इन्द्र नेदीय एद् इहि इति इन्द्र निहवः प्रगाथ । नेदीय उपनिष्क्राम इति ह एनम् मरुत ऊचुः प्रधर्षयन्तः । सो अब्रवीद्द् हत्वा वृत्रम् विजित्य युष्माभिर् मे अयम् सह सोम पीथ इति । तैर् एव अस्य एष सह सोम पीथः । [४]प्र नूनम् ब्रह्मणस्पतिर् इति ब्राह्मणस्पत्यः प्रगाथः । प्रहर इत् ह एनम् ब्रह्मा उवाच प्रधर्षयन् । सो अब्रवीद्द् हत्वा वृत्रम् विजित्य त्वया मे अयम् सह सोम पीथ इति । स एष ब्रह्मण एव सोम पीथः । तस्मिन् देवता अन्वाभजत इति ह स्म आह कौषीतकिः । यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति । अत्र देवता अन्वाभक्ताः । तद् आहुर् यन्न् एव स्तोत्रियो न अनुरूप इन्द्र निहवश् च ब्राह्मणस्पत्यश् च प्रगाथाव् अथ कस्मात् पुनर् आदायम् ककुप् कारम् शस्येते इति । पुनर् आदायम् वै सामगाः पवमाने स्तुवते । तस्य एव एतद् रूपम् क्रियते । [५]अग्निर् नेता भग इव क्षितीनाम् [६]त्वम् सोम क्रतुभिः सुक्रतुर् भूर् इत्य् अग्नीषोमीये । अग्नीषोमौ वा अन्तर् वृत्र आस्ताम् । ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् । ताव् एतम् भागम् उपनिराक्रामताम् । यश् च एनयोर् असौ पौर्णमासे । तद् एतद् वार्त्रघ्नम् एव उक्थम् यन् मरुत्वतीयम् । एतेन हि इन्द्रो वृत्रम् अहन् ।
१५.३ मरुत्वतीयशस्त्रम्
पिन्वन्त्य् अपो मरुतः सुदानव इति पिन्वन्त्य् अपीया । आपो वै पिन्वन्त्य् अपीया । तद् यद् एव वृत्रम् हतम् आपो व्यायन् । यत् प्रापिन्वंस् तस्मात् पिन्वन्त्य् अपीया । सा वै जगती । तया सर्वाणि सवनानि जगद्वन्ति भवन्ति । जनिष्ठा उग्रः सहसे तुरीय इति जातवन् मरुत्वतीयम् । एतद् वा इन्द्रो जायते यद् वृत्रम् अहन् । एतद् उ वा एष जायते यो यजते । तस्य प्रथमायाम् अध्वर्युः सकृन् मद्वत् प्रत्यागृणाति । अत्र हि इन्द्रः प्रथमम् अमाद्यत् । तद् एतत् पृतनाजि देव सूक्तम् यन् मरुत्वतीयम् । एतेन हि इन्द्रः पृतना अजयत् । तस्य मध्ये निविदम् दधाति । मध्ये वा इदम् आत्मनो अन्नम् धीयते । अथ निविदः शंसति । प्राणा वै निविदः । प्राणान् एव तद् आत्मन् धत्ते । तासाम् एक एकम् पदम् अवग्राहम् शंसति । एक एकम् एव तत् प्राणम् आत्मन् धत्ते । उत्तमेन प्रणौति । इमम् एव तत् प्राणम् उत्सृजते । तस्माद्द् हि इमम् प्राणम् सर्वे प्राणा अनुप्राणन्ति । अथो अन्नम् निविद इत्य् अप्य् आहुः । तस्माद् एना आरतम् शंसेत् । अत्वरमाण इव हि प्रतिकामिनम् अन्नाद्यम् अत्ति । ये त्व् आहिहत्ये मघवन्न् अवर्धन्न् इत्य् उक्थम् शस्त्वा यजति । ये शाम्बरे हरिवो ये गविष्ठाव् इति । एतैर् वा एष एतानि सह वीर्याण्य् अकरोत् । तैर् एव अस्य एष सह सोम पीथः । सा वा ऐन्द्री त्रिष्टुब् भवति । ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । वाग् एव असौ प्रथमा अनुष्टुप् । ताम् पञ्च गायत्र्यो अनुवर्तन्ते । मन इन्द्र निहवः श्रोत्रम् ब्राह्मणस्पत्यः । प्राणो अपानो व्यान इति तिस्र एक पातिन्यः । आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् । प्रतिष्ठा परिधानीय अन्नम् याज्या ।
१५.४ निष्केवल्यशस्त्रम्
अथ निष्केवल्यम् । बह्व्यो देवताः प्राच्यः शस्यन्ते बह्व्य ऊर्ध्वाः । अथ एतद् इन्द्रस्य एव निष्केवल्यम् । तन् निष्केवल्यस्य निष्केवल्यत्वम् । अथ यद् बृहत्या प्रतिपद्यते । बार्हतो वा एष य एष तपति । तद् एनम् स्वेन रूपेण समर्धयति । द्वे तिस्रः करोति पुनर् आदायम् । तत् प्रजात्यै रूपम् । द्वाव् इव वा अग्रे भवतः । तत उपप्रजायते । प्रतिरूपम् अनुरूपम् कुर्वीत । प्रतिरूपो ह एव अस्य प्रयाजाम् आजायते न अप्रतिरूपः । धाय्याम् शंसति । प्राणो वै धाय्याः । प्राणम् एव तद् आत्मन् धत्ते । प्रगाथम् शंसति । पशवो वै प्रगाथः । पशूनाम् एव आप्त्यै । अथो प्राण अपानौ वै बार्हतः प्रगाथः । प्राण अपानाव् एव तद् आत्मन् धत्ते । इन्द्रस्य नु वीर्याणि प्र वोचम् इति पञ्चदशर्चम् निष्केवल्यम् । पञ्चदशो वै वज्रः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । तस्य मध्ये निविदम् दधाति । मध्ये वा इदम् आत्मनो अन्नम् धीयते । अथ निविदः शंसति । प्राणा वै निविदः । प्राणान् एव तद् आत्मन् धत्ते । तासाम् एक एकम् पदम् अवग्राहम् शंसति । एक एकम् एव तत् प्राणम् आत्मन् धत्ते । उत्तमेन प्रणौति । इदम् एव तत् प्राणम् उत्सृजते । तस्माद्द् हि इमम् प्राणम् सर्वे प्राणा अनुप्राणन्ति । अथो अन्नम् निविद इत्य् अप्य् आहुः । तस्माद् एना आरतम् शंसेत् । अत्वरमाण इव हि प्रतिकामिनम् अन्नाद्यम् अत्ति । नितराम् परिधानीयाम् शंसेत् । तथा ह पत्न्य् अप्रच्यावुका भवति । अनुदायिततराम् । तथा ह पत्न्य् अनुद्धत मना इव भवति । आत्मा वै स्तोत्रियः प्रजा अनुरूपः । महिषी धाय्या प्रगाथः पशवः । आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् । प्रतिष्ठा परिधानीय अन्नम् याज्या ।
१५.५ विविधशस्त्रेषु अग्निना मृत्युवञ्चनम्
पवमाने स्तूयमाने होतारम् मृत्युः प्रत्यालीयत । तम् आज्येन न्यकरोद् अन्यत्र स्तोत्रियात् । आद्ये साम आज्ये प्रत्यलीयत । तम् प्रउगेण न्यकरोद् अन्यत्र स्तोत्रियात् । तम् माध्यंदिने पवमाने प्रत्यालीयते । तम् मरुत्वतीयेन न्यकरोद् अन्यत्रे एव स्तोत्रियात् । अथ वै निष्केवल्यम् स्तोत्रियेण एव प्रतिपद्यते । तद् यथा अभये अतिमुच्य मृत्युम् यथा अतिमुमुचान एवम् । तद् आहुर् निष्केवल्यम् एव इदम् निष्केवल्यम् अदो महा व्रते शस्यन्ते वा अमुत्र चतुर् उत्तराणि कथम् इह उपाप्यन्त इति । तानि वा इह उपाप्ततराणि भवन्ति । स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुर् उत्तराणि सम्पद्यते । चतुर् अक्षरम् च पदम् उदैति । स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुर् उत्तराणि सम्पद्यन्ते । चतुर् अक्षरम् च पदम् उदैति । ते पशवः । तान् पशून् यजमाने दधाति । विराड् वा अग्निष्टोमः । नवति शतम् स्तोत्रियाः सम्पद्यन्ते । प्रत्यक्षम् एव एतद् अग्निष्टोमस्य रूपम् उपैति यद् विराजा यजति । पिबा सोमम् इन्द्र मन्दतु त्वा इति पदम् परिशिष्य विराजो अर्धर्चे अवान् इति । श्रीर् विराड् अन्नाद्यम् । श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति । उत्तरेण विराजो अर्धर्चेन वषट् करोति । स्वर्ग एव तल् लोके यजमानम् दधाति । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।
१५.१ ग्रावस्तुत्कर्म
देवा वा अर्बुदेन च पावमानीभिश् च ग्राव्णो अभिष्टुत्या आप्नुवन्न् अमृतत्वम् ।
आप्नुवन्त् सत्यम् संकल्पम् ।
तथो एव एतद् यजमानो यद् अर्बुदेन च पावमानीभिश् च ग्राह्णो अभिष्टौत्य् आप्नोत्य् अमृतत्वम् ।
आप्नोति सत्यम् संकल्पम् ।
अथ स्तुते पवमाने दधि घर्मेण चरन्ति ।
अत्र कालो हि भवति ।
अथो सवनस्य एव सरसतायै ।
अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् ।
भारद्वाज्या मध्यंदिने प्रस्थितानाम् यजति ।
भरद्वाजो ह मध्यंदिन इन्द्राय सोमम् प्रददौ ।
सा वा ऐन्द्री त्रिष्टुब् भवति ।
आहुतीनाम् प्रतिष्ठित्यै ।
अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् ।
अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् ।
हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते ।
अथो दक्षिणाभिर् वै यज्ञम् दक्षयति ।
तद् यद् दक्षिणाभिर् वै यज्ञम् दक्षयति ।
तस्माद् दक्षिणा नाम ।
आत्म दक्षिणम् वै सत्रम् ।
तस्माद् अहर् अहर् जपेयुः ।
इदम् अहम् माम् कल्याण्यै कीर्त्यै स्वर्गाय लोकाय अमृतत्वाय दक्षिणाम् नयन्ति ।
वैश्वामित्रीम् मरुत्वतीय ग्रहस्य पुरोनुवाक्याम् अनूच्य वैश्वामित्र्या यजति ।
सवन ततिर् वै मरुत्वतीय ग्रहः ।
वाग् वै विश्वामित्रः ।
वाचा यज्ञस् तायते ।
ते वा ऐन्द्र्यौ त्रिष्टुभौ भवतः ।
ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
१५.२ मरुत्वतीयशस्त्रम्
अथ षड्विधम् मरुत्वतीयम् शंसति ।
षड् वा ऋतवः संवत्सरः । (माध्यंदिन सवन)
संवत्सरस्य एव आप्त्यै ।
अनुष्टुभम् गायत्रीम् बृहतीम् उष्णिहम् त्रिष्टुभम् जगतीम् इति षट् छन्दांसि शंसति ।
तस्मात् षड्विधम् भवति ।
आ त्वा रथम् यथा ऊतय इत्य् अनुष्टुभा मरुत्वतीयम् प्रतिपद्यते ।
पवमान उक्थम् वा एतद् यन् मरुत्वतीयम् ।
अनुष्टुप् सोमस्य छन्दः ।
उक्तम् पद विग्रहणस्य ब्राह्मणम् ।
गायत्रीः शंसति ।
प्राणो वै गायत्र्यः ।
प्राणम् एव तद् आत्मन् धत्ते ।
इदम् वसो सुतम् अन्ध इत्य् अनुचरः सुतवान् पीतवान् ।
पवमान उक्थम् ह्य् एतत् ।
इन्द्र नेदीय एद् इहि इति इन्द्र निहवः प्रगाथ ।
नेदीय उपनिष्क्राम इति ह एनम् मरुत ऊचुः प्रधर्षयन्तः ।
सो अब्रवीद्द् हत्वा वृत्रम् विजित्य युष्माभिर् मे अयम् सह सोम पीथ इति ।
तैर् एव अस्य एष सह सोम पीथः ।
प्र नूनम् ब्रह्मणस्पतिर् इति ब्राह्मणस्पत्यः प्रगाथः ।
प्रहर इत् ह एनम् ब्रह्मा उवाच प्रधर्षयन् ।
सो अब्रवीद्द् हत्वा वृत्रम् विजित्य त्वया मे अयम् सह सोम पीथ इति ।
स एष ब्रह्मण एव सोम पीथः ।
तस्मिन् देवता अन्वाभजत इति ह स्म आह कौषीतकिः ।
यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति ।
अत्र देवता अन्वाभक्ताः ।
तद् आहुर् यन्न् एव स्तोत्रियो न अनुरूप इन्द्र निहवश् च ब्राह्मणस्पत्यश् च प्रगाथाव् अथ कस्मात् पुनर् आदायम् ककुप् कारम् शस्येते इति ।
पुरर् आदायम् वै सामगाः पवमाने स्तुवते ।
तस्य एव एतद् रूपम् क्रियते ।
अग्निर् नेता भग इव क्षितीणाम् त्वम् सोम ऋतुभिः सुक्रतुर् भूर् इत्य् अग्नीषोमीये ।
अग्नीइषोमौ वा अन्तर् वृत्र आस्ताम् ।
ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् ।
ताव् एतम् भागम् उपनिचक्रामताम् ।
यश् च एनयोर् असौ पौर्णमासे ।
तद् एतद् वार्त्रघ्नम् एव उक्थम् यन् मरुत्वतीयम् ।
एतेन हि इन्द्रो वृत्रम् अहन् ।
१५.३ मरुत्वतीयशस्त्रम्
पिन्वन्त्य् अपो मरुतः सुदानव इति पिन्वन्त्य् अपीया ।
आपो वै पिन्वन्त्य् अपीया ।
तद् यद् एव वृत्रम् हतम् आपो व्यायन् ।
यत् प्रापिन्वंस् तस्मात् पिन्वन्त्य् अपीया ।
सा वै जगती ।
तया सर्वाणि सवनानि जगद्वन्ति भवन्ति ।
जनिष्ठा उग्रः सहसे तुरीय इति जातवन् मरुत्वतीयम् ।
एतद् वा इन्द्रो जायते यद् वृत्रम् अहन् ।
एतद् उ वा एष जायते यो यजते ।
तस्य प्रथमायाम् अध्वर्युः सकृन् मद्वत् प्रत्यागृणाति ।
अत्र हि इन्द्रः प्रथमम् अमाद्यत् ।
तद् एतत् पृतनाजि देव सूक्तम् यन् मरुत्वतीयम् ।
एतेन हि इन्द्रः पृतना अजयत् ।
तस्य मध्ये निविदम् दधाति ।
मध्ये वा इदम् आत्मनो अन्नम् धीयते ।
अथ निविदः शंसति ।
प्राणा वै निविदः ।
प्राणान् एव तद् आत्मन् धत्ते ।
तासाम् एक एकम् पदम् अवग्राहम् शंसति ।
एक एकम् एव तत् प्राणम् आत्मन् धत्ते ।
उत्तमेन प्रणौति ।
इमम् एव तत् प्राणम् उत्सृजते ।
तस्माद्द् हि इमम् प्राणम् सर्वे प्राणा अनुप्राणन्ति ।
अथो अन्नम् निविद इत्य् अप्य् आहुः ।
तस्माद् एना आरतम् शंसेत् ।
अत्वरमाण इव हि प्रतिकामिनम् अन्नाद्यम् अत्ति ।
ये त्व् आहिहत्ये मघवन्न् अवर्धन्न् इत्य् उक्थम् शस्त्वा यजति ।
ये शाम्बरे हरिवो ये गविष्ठाव् इति ।
एतैर् वा एष एतानि सह वीर्याण्य् अकरोत् ।
तैर् एव अस्य एष सह सोम पीथः ।
सा वा ऐन्द्री त्रिष्टुब् भवति ।
ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
वाग् एव असौ प्रथमा अनुष्टुप् ।
ताम् पञ्च गायत्र्यो अनुवर्तन्ते ।
मन इन्द्र निहवः श्रोत्रम् ब्राह्मणस्पत्यः ।
प्राणो अपानो व्यान इति तिस्र एक पातिन्यः ।
आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् ।
प्रतिष्ठा परिधानीय अन्नम् याज्या ।
१५.४ निष्केवल्यशस्त्रम्
अथ निष्केवल्यम् ।
बह्व्यो देवताः प्राच्यः शस्यन्ते बह्व्य ऊर्ध्वाः ।
अथ एतद् इन्द्रस्य एव निष्केवल्यम् ।
तन् निष्केवल्यस्य निष्केवल्यत्वम् ।
अथ यद् बृहत्या प्रतिपद्यते ।
बार्हतो वा एष य एष तपति ।
तद् एनम् स्वेन रूपेण समर्धयति ।
द्वे तिस्रः करोति पुनर् आदायम् ।
तत् प्रजात्यै रूपम् ।
द्वाव् इव वा अग्रे भवतः ।
तत उपप्रजायते ।
प्रतिरूपम् अनुरूपम् कुर्वीत ।
प्रतिरूपो ह एव अस्य प्रयाजाम् आजायते न अप्रतिरूपः ।
धाय्याम् शंसति ।
प्राणो वै धाय्याः ।
प्राणम् एव तद् आत्मन् धत्ते ।
प्रगाथम् शंसति ।
पशवो वै प्रगाथः ।
पशूनाम् एव आप्त्यै ।
अथो प्राण अपानौ वै बार्हतः प्रगाथः ।
प्राण अपानाव् एव तद् आत्मन् धत्ते ।
इन्द्रस्य नु वीर्याणि प्र वोचम् इति पञ्चदशर्चम् निष्केवल्यम् ।
पञ्चदशो वै वज्रः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
तस्य मध्ये निविदम् दधाति ।
मध्ये वा इदम् आत्मनो अन्नम् धीयते ।
अथ निविदः शंसति ।
प्राणा वै निविदः ।
प्राणान् एव तद् आत्मन् धत्ते ।
तासाम् एक एकम् पदम् अवग्राहम् शंसति ।
एक एकम् एव तत् प्राणम् आत्मन् धत्ते ।
उत्तमेन प्रणौति ।
इदम् एव तत् प्राणम् उत्सृजते ।
तस्माद्द् हि इमम् प्राणम् सर्वे प्राणा अनुप्राणन्ति ।
अथो अन्नम् निविद इत्य् अप्य् आहुः ।
तस्माद् एना आरतम् शंसेत् ।
अत्वरमाण इव हि प्रतिकामिनम् अन्नाद्यम् अत्ति ।
नितराम् परिधानीयाम् शंसेत् ।
तथा ह पत्न्य् अप्रच्यावुका भवति ।
अनुदायिततराम् ।
तथा ह पत्न्य् अनुद्धत मना इव भवति ।
आत्मा वै स्तोत्रियः प्रजा अनुरूपः ।
महिषी धाय्या प्रगाथः पशवः ।
आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् ।
प्रतिष्ठा परिधानीय अन्नम् याज्या ।
१५.५ विविधशस्त्रेषु अग्निना मृत्युवञ्चनम्
पवमाने स्तूयमाने होतारम् मृत्युः प्रत्यालीयत ।
तम् आज्येन न्यकरोद् अन्यत्र स्तोत्रियात् ।
आद्ये साम आज्ये प्रत्यलीयत ।
तम् प्रउगेण न्यकरोद् अन्यत्र स्तोत्रियात् ।
तम् माध्यंदिने पवमाने प्रत्यालीयते ।
तम् मरुत्वतीयेन न्यकरोद् अन्यत्रे एव स्तोत्रियात् ।
अथ वै निष्केवल्यम् स्तोत्रियेण एव प्रतिपद्यते ।
तद् यथा अभये अतिमुच्य मृत्युम् यथा अतिमुमुचान एवम् ।
तद् आहुर् निष्केवल्यम् एव इदम् निष्केवल्यम् अदो महा व्रते शस्यन्ते वा अमुत्र चतुर् उत्तराणि कथम् इह उपाप्यन्त इति ।
तानि वा इह उपाप्ततराणि भवन्ति ।
स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुर् उत्तराणि सम्पद्यते ।
चतुर् अक्षरम् च पदम् उदैति ।
स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुर् उत्तराणि सम्पद्यन्ते ।
चतुर् अक्षरम् च पदम् उदैति ।
ते पशवः ।
तान् पशून् यजमाने दधाति ।
विराड् वा अग्निष्टोमः ।
नवति शतम् स्तोत्रियाः सम्पद्यन्ते ।
प्रत्यक्षम् एव एतद् अग्निष्टोमस्य रूपम् उपैति यद् विराजा यजति ।
पिबा सोमम् इन्द्र मन्दतु त्वा इति पदम् परिशिष्य विराजो अर्धर्चे अवान् इति ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति ।
उत्तरेण विराजो अर्धर्चेन वषट् करोति ।
स्वर्ग एव तल् लोके यजमानम् दधाति ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।