कौषीतकिब्राह्मणम्/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५ कौषीतकिब्राह्मणम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
सोमयागः( तृतीयसवनम् )


१६.१ आदित्यग्रहः
वसूनाम् वै प्रातःसवनम् । रुद्राणाम् माध्यंदिनम् सवनम् । आदित्यानाम् तृतीय सवनम् । तद् यद् आदित्य ग्रहेण तृतीय सवनम् प्रतिपद्यते । स्वया एव तद् देवतया प्रतिपद्यते । अथो धीर रसम् वा एतत् सवनम् यत् तृतीय सवनम् । अथ एष सरसो ग्रहो यद् आदित्य ग्रहः । तेन एव तत् तृतीय सवनम् सरसम् करोति । त्रिष्टुभम् आदित्य ग्रहस्य पुरोनुवाक्याम् अनूच्य त्रिष्टुभा यजति । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । तस्य न अनुवषट् करोति । सवन ततिर् वा आदित्य ग्रहः संस्था अनुवषट् कारः । न इत् पुरा कालात् सवनम् संस्था अपयानि इति । मद्वती याज्या मद्वद्द् हि तृतीय सवनम् । अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम् ब्राह्मणम् । अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् । ऐन्द्रार्भवीस् तृतीय सवन उन्नीयमानेभ्यो अन्वाह । यत्र ह तद् ऋभवः प्रजापतेः प्रेमाणम् प्रापुः । तद् एनान् इन्द्रः सोम पीथे अन्वाभेजे । तस्मान् न आर्भवीषु स्तुवते । अथ आर्भवः पवमान इत्य् आचक्षते । ऐन्द्रार्भव्या तृतीय सवने प्रस्थितानाम् यजति । इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति । जगत्या जागतम् हि तृतीय सवनम् । मद्वत्या मद्वद्द् हि तृतीय सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् । अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् । औपासनांस् तृतीय सवन उपास्यन्ति । पितॄन् एव तत् प्रीणन्ति ।

१६.२ सावित्रग्रहः
अथ सावित्र ग्रहेण चरन्ति । प्रातःसवन एतम् अग्रे अयजन् । ताः प्रजा न प्राजायन्त । तम् माध्यंदिने सवने । ता उ तर नो एव । तम् अत्र तृतीय सवने अयजन् । ततः प्रजाः प्राजायन्त । तस्मात् तृतीय सवने अवधृतः सविता । अथो आदित्यानाम् वा एकः सविता । आदित्यानाम् तृतीय सवनम् । तस्माद् एनम् तृतीय सवने यजन्ति । त्रिष्पुभम् सावित्र ग्रहस्य पुरोनुवाक्याम् अनूच्य जगत्या यजति । बलम् वै वीर्यम् त्रिष्टुप् । पशवो जगती । बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठति । तस्य न अनुवषट् करोति । प्राणो वै सावित्र ग्रहः संस्था अनुवषट् कारः । न इत् पुरा कालात् प्राणम् संस्था अपयानि इति । युक्त इव ह्य् अयम् प्राणः । मद्वती याज्या मद्वद्द् हि तृतीय सवनम् ।

१६.३ वैश्वदेवशस्त्रम्
सवित्रा वैश्वदेवम् प्रतिपद्यते । सवितृ प्रसूता वै देवास् तृतीय सवनम् समभरन् । तस्मात् प्रतिपद् अनुचरौ सूक्तम् इति सावित्राणि भवन्ति । तत् सवितुर् वृणीमह इत्य् अनुष्टुभा वैश्वदेवम् प्रतिपद्यते । पवमान उक्थम् वा एतद् यद् वैश्वदेवम् । अनुष्टुप् सोमस्य छन्दः । उक्तम् पद विग्रहणस्य ब्राह्मणम् । गायत्रीः शंसति । प्राणो वै गायत्र्यः । प्राणम् एव तद् आत्मन् धत्ते । सावित्रम् शंसति । सावित्रो हि ग्रहो गृहीतो भवति । तम् एव एतेन अनुशंसति । वायव्याम् शंसति । प्राणो वै वायव्या । प्राणम् एव तद् आत्मन् धत्ते । तस्यै शस्त्रे द्विदेवत्यान् विमुञ्चन्ति । वायौ प्राणे प्राणान् । द्यावा पृथिवीयम् शंसति । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । तस्मिन्न् अध्वर्युर् मद्वत् प्रत्यागृणाति । मद्वद्द् हि तृतीय सवनम् । सुरूप कृत्नुम् शंसति । अन्नम् वै सुरूपम् । अन्नम् एव तद् आत्मन् धत्ते । अथो रूपाणाम् एव एष सोम पीथः । रूपम् एव तद् आत्मन् धत्ते । आर्भवम् शंसति । अत्र ह्य् एभ्यः प्रजापतिर् अवाकल्पयत् । तस्माद् अत्र आर्भवम् शस्यते । अथ वेनाम् आदित्याम् बार्हस्पत्याम् इति शंसति । शुक्रा मन्थिनाव् आग्रयणम् इत्य् एव एताभिर् अनुशंसति । अथो वैश्वदेवम् वै शस्त्रम् । देवतानाम् अपरिहाणाय वैश्वदेवम् शंसति । वैश्वदेवो हि ग्रहो गृहीतो भवति । तम् एव एतेन अनुशंसति । तस्य द्विः पच्छः परिधानीयाम् शंसति । अर्धर्चशस् तृतीयम् । सा विराजम् अभिसम्पद्यते । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । चत्वारि सूक्तानि वैश्वदेवे शंसति । पशवो वै वैश्वदेवम् । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । तस्माद् एनद् आरतम् शंसेत् । रमन्ते ह अस्मिन् पशवः ।

१६.४ शस्त्रमीमांसा
षोडश आहावम् वैश्वदेवम् शंसति । षोडश कलम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । तत् सप्तदशविधम् भवति । एकादश देवताश् चतस्रो निविद उक्थ वीर्यम् याज्या इति । सप्तदशो वै प्रजापतिः । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । विश्वे देवाः शृणुत इमम् हवम् म इत्य् उक्थम् शस्त्वा यजति वैश्वदेव्या । वैश्वदेवम् ह्य् एतद् उक्थम् । त्रिष्टुभा बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । मद्वत्या मद्वद्द् हि तृतीय सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । वाग् एव असौ प्रथमा अनुष्टुप् । ताम् पञ्च गायत्र्यो अनुवर्तन्ते । मनः सावित्रम् । प्राणो वायव्या । चक्षुषी द्यावा पृथिवीयम् । यो अयम् अनिरुक्तः प्राणः स सुरूप कृत्नुः । श्रोत्रम् आर्भवम् । प्राणो अपानो व्यान इति तिस्र एक पातिन्यः । आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् । प्रतिष्ठा परिधानीय अन्नम् याज्या । तद् आहुः कस्माद् ब्रह्म क्षत्रे एव प्रच्यावुके विड् अच्युत इति । ब्रह्म वै प्रातःसवनम् । क्षत्रम् माध्यंदिनम् सवनम् । विट् तृतीय सवनम् । तद् यद् यथा उपपादम् एव प्रातःसवन मध्यंदिनयोः परिदधति । तस्माद् ब्राह्मण्यः प्रजा अनवधृतम् क्षियन्ति । अनवधृतम् क्षत्रियाः । अथ यत् तृतीयस्य सवनस्य परिधानीया अच्युता । तस्माद् विड् अच्युता इति ।

१६.५ अग्नीषोमविष्णुयजनम्
घृतस्य यज सौम्यस्य यज इत्य् आह । एताभ्याम् वै यज्ञस् तायते यद् घृतेन च सोमेन च । ते अत्र प्रीणाति । प्रीते यज्ञम् वहात इति । उपांशु घृतस्य यजति । रेतः सिक्तिर् वै घृतम् । उपांशु वै रेतः सिच्यते । अथ यद् उच्चैः सौम्यस्य यजति । चन्द्रमा वै सोमः । निरुक्त उ वै चन्द्रमाः । तस्य न परस्तात् परियजेद् इत्य् आहुः । तथा अमी अमुत इदम् अर्वाञ्चः पश्यन्ति इति । परियजेद् इति त्व् एव स्थितम् । देव लोको वा आज्यम् । पितृ लोकः सोमः । देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति । अथो पितॄन् एव तत् प्रीणन्ति यत् सौम्येन चरन्ति । अथो एतद् उपसद उत्सृज्यन्त इत्य् आहुः । अग्निम् सोमम् विष्णुम् इति वा उपसत्सु प्रतियजति । अग्निम् सोमम् विष्णुम् इति इदम् । हरन्त्य् एतम् सौम्यम् सदः । तम् होता प्रतिगृह्य उपनिधत्ते । अथ अस्य सर्पिष्य् आत्मानम् पर्यवेक्ष्य अङ्गुलिभ्याम् सर्पिर् उपस्पृशति । चक्षुष्पा असि चक्षुर् मे पाहि इति चक्षुषी विमृजीत । चक्षुर् एव अस्य तद् गोपायति । तद् उद्गातृभ्यः प्रयच्छति ।

१६.६ पात्नीवतग्रहः
अथ पत्नीवत ग्रहेन चरन्ति । पत्नीर् एव तद् आहवनीय भाजः कुर्वन्ति । तस्य न अनुवषट् करोति । आज्य संसृष्टो हि भवति । अननुवषट् कार भाग् आज्यम् । उपांशु यजति । रेतः सिक्तिर् वै पत्नीवत ग्रह उपांशु वै रेतः सिच्यते । न अनुवषट् करोति । रेतः सिक्तिर् वै पत्नीवत ग्रहः संस्था अन्वषट् कारः । न इद् रेतः सिक्तम् पुरा कालात् संस्था अपयानि इति । तद् आहुर् यद् एषा नेष्टुर् याज्या अथ कस्माद् एनया अग्नीध्रो यजति इति । आग्नेयी वा एषा याज्या । आग्नेय आग्नीध्रः । तस्माद् एनया अग्नीध्रो यजति । अथो एवम् समा अनुक्थानाम् वषट् कारा भवन्ति इति ।

१६.७ अग्निमारुतशस्त्रम्
एकविंशत्य् आहावम् आग्मिमारुतम् शंसति । एकविंशो वै स्तोमः स्तोमानाम् परमः प्रतिष्ठानीयः । प्रतिष्ठित्या एव । तच् चतुर्विंशतिविधम् भवति । विंशतिः पर्वाणि । तानि चतुश् चत्वारिंशति । चतुश् चत्वारिंशद् अक्षरा त्रिष्टुप् । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । वैश्वानरीयम् शंसति । वैश्वानरीयो हि ग्रहो गृहीतो भवति । तम् एव एतेन अनुशंसति । रौद्रीम् शंसति । घोरो वै रुद्रः । भैषज्यम् एव तत् कुरुते । अथो अन्त भाग् वा वा एषः । तस्माद् एनाम् अन्त्ये शस्त्रे शंसति । मारुतम् शंसति । एतत् पूरो वै रुद्रः । तद् एनम् स्वेन पूगेन समर्धयति । अथ यज्ञायज्ञियस्य स्तोत्रिया अनुरूपौ । जातवेदसीयम् शंसति । तेन अग्निमारुतम् इत्य् आख्यायते । तस्माद् एनद् अभ्यग्रम् शंसेत् । यथा अग्निम् प्रदाव्यम् अतिमोक्ष्यमाण एवम् । आपो देवत्याः शंसति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते । तस्माद् एना आरतम् शंसेत् । यथा अप्सु न्युन्दान् एवम् । अहिम् बुध्न्यम् शंसति । अग्निर् वा अहिर् बुध्न्यः । तम् एतया उज्ज्वलयति । अथो धिष्ण्यान् एव एतया अनुशंसति । देवानाम् च पत्नी राकाम् च शंसति । पत्नीवत ग्रहम् एव एताभिर् अनुशंसति । अथो अन्त भाजो वै पत्न्यः । तस्माद् एना अन्त्ये शस्त्रे शंसति ।

१६.८ अक्षरपङ्क्तयः
अक्षर पङ्क्तयः शंसति । पशवो वा अक्षर पङ्क्तयः । पशूनाम् एव आप्त्यै । अथो प्राण अपानौ वा अक्षर पङ्क्तयः । प्राण अपानाव् एव तद् आत्मन् धत्ते । अथो शस्त्रस्य एव स इन्द्रतायै । पैत्रीश् च यामीश् च शंसति । नाराशंसान् एव एताभिर् अनुशंसति । अथो अन्त भाजो वै पितरः । तस्माद् एनान् अन्त्ये शस्त्रे शंसति । स्वादुष्किलीयाः शंसति । सोमम् एव एताभिर् इन्द्राय स्वदयति । अथो देव लोको वा इन्द्रः । पितृ लोको यमः । देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति । तास्व् अध्वर्युर् मद्वत् प्रत्यागृणाति । मद्वद्द् हि तृतीय सवनम् । वैष्णुवारुणीम् शंसति । यज्ञो वै वैष्णुवारुणः । यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति । तद् एतया भिषज्यति । भैषज्यम् एव एषा । वैष्णवीम् च आग्नेयीम् च शंसति । अग्नाविष्णू वै देवानाम् अन्त भाजौ । तस्माद् एनाव् अन्त्ये शस्त्रे शंसति । ऐन्द्र्या परिदधाति । इन्द्रस्य ह्य् एषः । तम् इन्द्र एव अन्ततः प्रतिष्ठापयति ।

१६.९ सोमयागदेवतामीमांसा
किम् देवत्यः सोम इति मधुको गौश्रवम् पप्रच्छ । स ह सोमः पवत इत्य् अनुद्रुत्य । एतस्य वा अन्ये स्युर् इति प्र्त्युवाच । बह्वृचवद् एव । ऐन्द्र इति त्व् एव पैङ्ग्यस्य स्थितिर् आस । ऐन्द्राग्न इति कौषीतकेः । अग्निना वै प्रतिपद्यते यद् आज्येन । इन्द्रम् अनु संतिष्ठत एताम् परिधानीयाम् । तस्माद् ऐन्द्राग्न इति । एष वा अग्निष्टोमः । एष वा उ कामाय कामाय आह्रियते । यो ह वा एतेन अनिष्ट्वा अथ अन्येन यजते । कर्तपत्यम् एव तज् जीयते प्र वा मीयत इति ह स्म आह । स वा एषो अग्निष्टोम आज्य प्रभृत्या अग्नि मारुत अन्तः । यत् शस्यंस् त्रीणि षष्टि शतान्य् ऋचाम् सम्पद्यन्ते । त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् । तत् संवत्सरस्य अहान्य् आप्नोति । अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिर् इत्य् उक्थम् शस्त्वा यजत्य् आग्निमारुत्या । आग्मिमारुतम् ह्य् एतद् उक्थम् । जगत्या जागतम् हि तृतीय सवनम् । मद्वत्या मद्वद्द् हि तृतीय सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै ।

१६.१० सौत्रामणिः
सोमेनेष्ट्वा सौत्रामण्या यजेत श्रियं प्रजां विराजं चेच्छन् ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः आत्मा वै यज्ञस्य त्रिपशुर्बाहूपशुस्तस्मादात्मानमभितो बाहू भवतः तस्मादात्मानमभितः पार्श्वे स्यातां यत्सुरासोमग्रहाननुवषट्कृत्य सर्वे तस्मात्सोमेनेष्ट्वा सौत्रामणीं कुर्याद् य एवं विद्वान्सोमेनेष्ट्वा सौत्रामण्या यजेत स श्रियं प्रजां विराजमाप्नोति यश्चैवं वेद श्रीर्विराळन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अवभृथमवैति यथा सोमे मैत्रावरुण्या वा पयस्यया यजेत तस्या उक्तं ब्राह्मणम् ।। १० ।।

१६.११ उक्थ्योक्थ्यम्
ऐन्द्राग्नान्य् उक्थ्य उक्थानि भवन्ति । इन्द्राग्नी वै सर्वे देवाः । वैश्वदेवम् तृतीय सवनम् । सर्वेषाम् एव देवानाम् प्रीत्यै । आग्नेयीषु मैत्रावरुणाय प्रणयन्त्य् ऐन्द्रीष्व् इतरयोः । तेन तान्य् ऐन्द्राग्नानि भवन्ति । चत्वारि चत्वारि सूक्तानि शंसन्ति । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । तानि द्वादश सम्पद्यन्ते । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । चतुर् आहावानि शस्त्राणि । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । द्विदेवत्या उक्थ याज्याः । द्विपाद् यजमानः । प्रतिष्ठित्यै । तानि चत्वारि सम्पद्यन्ते । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव अपाप्त्यै । ऐन्द्रावरुणी मैत्रावरुणस्य । ऐन्द्रावरुणम् ह्य् अस्य उक्थम् भवति । ऐन्द्राबार्हस्पत्या ब्राह्मण आच्छंसिनः । ऐन्द्रावैष्णवम् ह्य् अस्य उक्थम् भवति । प्रथम उत्तमे मद्वत्यौ । मद्वद्द् हि तृतीय सवनम् । ता वै त्रिष्टुभो भवन्ति । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधति । अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।  

१६.१ आदित्यग्रहः
वसूनाम् वै प्रातःसवनम् ।
रुद्राणाम् माध्यंदिनम् सवनम् ।
आदित्यानाम् तृतीय सवनम् ।
तद् यद् आदित्य ग्रहेण तृतीय सवनम् प्रतिपद्यते ।
स्वया एव तद् देवतया प्रतिपद्यते ।
अथो धीर रसम् वा एतत् सवनम् यत् तृतीय सवनम् ।
अथ एष सरसो ग्रहो यद् आदित्य ग्रहः ।
तेन एव तत् तृतीय सवनम् सरसम् करोति ।
त्रिष्टुभम् आदित्य ग्रहस्य पुरोनुवाक्याम् अनूच्य त्रिष्टुभा यजति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
तस्य न अनुवषट् करोति ।
सवन ततिर् वा आदित्य ग्रहः संस्था अनुवषट् कारः ।
न इत् पुरा कालात् सवनम् संस्था अपयानि इति ।
मद्वती याज्या मद्वद्द् हि तृतीय सवनम् ।
अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम् ब्राह्मणम् ।
अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् ।
ऐन्द्रार्भवीस् तृतीय सवन उन्नीयमानेभ्यो अन्वाह ।
यत्र ह तद् ऋभवः प्रजापतेः प्रेमाणम् प्रापुः ।
तद् एनान् इन्द्रः सोम पीथे अन्वाभेजे ।
तस्मान् न आर्भवीषु स्तुवते ।
अथ आर्भवः पवमान इत्य् आचक्षते ।
ऐन्द्रार्भव्या तृतीय सवने प्रस्थितानाम् यजति ।
इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति ।
जगत्या जागतम् हि तृतीय सवनम् ।
मद्वत्या मद्वद्द् हि तृतीय सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् ।
अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् ।
औपासनांस् तृतीय सवन उपास्यन्ति ।
पितॄन् एव तत् प्रीणन्ति ।

१६.२ सावित्रग्रहः
अथ सावित्र ग्रहेण चरन्ति ।
प्रातःसवन एतम् अग्रे अयजन् ।
ताः प्रजा न प्राजायन्त ।
तम् माध्यंदिने सवने ।
ता उ तर नो एव ।
तम् अत्र तृतीय सवने अयजन् ।
ततः प्रजाः प्राजायन्त ।
तस्मात् तृतीय सवने अवधृतः सविता ।
अथो आदित्यानाम् वा एकः सविता ।
आदित्यानाम् तृतीय सवनम् ।
तस्माद् एनम् तृतीय सवने यजन्ति ।
त्रिष्पुभम् सावित्र ग्रहस्य पुरोनुवाक्याम् अनूच्य जगत्या यजति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
पशवो जगती ।
बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठति ।
तस्य न अनुवषट् करोति ।
प्राणो वै सावित्र ग्रहः संस्था अनुवषट् कारः ।
न इत् पुरा कालात् प्राणम् संस्था अपयानि इति ।
युक्त इव ह्य् अयम् प्राणः ।
मद्वती याज्या मद्वद्द् हि तृतीय सवनम् ।

१६.३ वैश्वदेवशस्त्रम्
सवित्रा वैश्वदेवम् प्रतिपद्यते ।
सवितृ प्रसूता वै देवास् तृतीय सवनम् समभरन् ।
तस्मात् प्रतिपद् अनुचरौ सूक्तम् इति सावित्राणि भवन्ति ।
तत् सवितुर् वृणीमह इत्य् अनुष्टुभा वैश्वदेवम् प्रतिपद्यते ।
पवमान उक्थम् वा एतद् यद् वैश्वदेवम् ।
अनुष्टुप् सोमस्य छन्दः ।
उक्तम् पद विग्रहणस्य ब्राह्मणम् ।
गायत्रीः शंसति ।
प्राणो वै गायत्र्यः ।
प्राणम् एव तद् आत्मन् धत्ते ।
सावित्रम् शंसति ।
सावित्रो हि ग्रहो गृहीतो भवति ।
तम् एव एतेन अनुशंसति ।
वायव्याम् शंसति ।
प्राणो वै वायव्या ।
प्राणम् एव तद् आत्मन् धत्ते ।
तस्यै शस्त्रे द्विदेवत्यान् विमुञ्चन्ति ।
वायौ प्राणे प्राणान् ।
द्यावा पृथिवीयम् शंसति ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
तस्मिन्न् अध्वर्युर् मद्वत् प्रत्यागृणाति ।
मद्वद्द् हि तृतीय सवनम् ।
सुरूप कृत्नुम् शंसति ।
अन्नम् वै सुरूपम् ।
अन्नम् एव तद् आत्मन् धत्ते ।
अथो रूपाणाम् एव एष सोम पीथः ।
रूपम् एव तद् आत्मन् धत्ते ।
आर्भवम् शंसति ।
अत्र ह्य् एभ्यः प्रजापतिर् अवाकल्पयत् ।
तस्माद् अत्र आर्भवम् शस्यते ।
अथ वेनाम् आदित्याम् बार्हस्पत्याम् इति शंसति ।
शुक्रा मन्थिनाव् आग्रयणम् इत्य् एव एताभिर् अनुशंसति ।
अथो वैश्वदेवम् वै शस्त्रम् ।
देवतानाम् अपरिहाणाय वैश्वदेवम् शंसति ।
वैश्वदेवो हि ग्रहो गृहीतो भवति ।
तम् एव एतेन अनुशंसति ।
तस्य द्विः पच्छः परिधानीयाम् शंसति ।
अर्धर्चशस् तृतीयम् ।
सा विराजम् अभिसम्पद्यते ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
चत्वारि सूक्तानि वैश्वदेवे शंसति ।
पशवो वै वैश्वदेवम् ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
तस्माद् एनद् आरतम् शंसेत् ।
रमन्ते ह अस्मिन् पशवः ।

१६.४ शस्त्रमीमांसा
षोडश आहावम् वैश्वदेवम् शंसति ।
षोडश कलम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
तत् सप्तदशविधम् भवति ।
एकादश देवताश् चतस्रो निविद उक्थ वीर्यम् याज्या इति ।
सप्तदशो वै प्रजापतिः ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् ।
विश्वे देवाः शृणुत इमम् हवम् म इत्य् उक्थम् शस्त्वा यजति वैश्वदेव्या ।
वैश्वदेवम् ह्य् एतद् उक्थम् ।
त्रिष्टुभा बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
मद्वत्या मद्वद्द् हि तृतीय सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
वाग् एव असौ प्रथमा अनुष्टुप् ।
ताम् पञ्च गायत्र्यो अनुवर्तन्ते ।
मनः सावित्रम् ।
प्राणो वायव्या ।
चक्षुषी द्यावा पृथिवीयम् ।
यो अयम् अनिरुक्तः प्राणः स सुरूप कृत्नुः ।
श्रोत्रम् आर्भवम् ।
प्राणो अपानो व्यान इति तिस्र एक पातिन्यः ।
आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् ।
प्रतिष्ठा परिधानीय अन्नम् याज्या ।
तद् आहुः कस्माद् ब्रह्म क्षत्रे एव प्रच्यावुके विड् अच्युत इति ।
ब्रह्म वै प्रातःसवनम् ।
क्षत्रम् माध्यंदिनम् सवनम् ।
विट् तृतीय सवनम् ।
तद् यद् यथा उपपादम् एव प्रातःसवन मध्यंदिनयोः परिदधति ।
तस्माद् ब्राह्मण्यः प्रजा अनवधृतम् क्षियन्ति ।
अनवधृतम् क्षत्रियाः ।
अथ यत् तृतीयस्य सवनस्य परिधानीया अच्युता ।
तस्माद् विड् अच्युता इति ।

१६.५ अग्नीषोमविष्णुयजनम्
घृतस्य यज सौम्यस्य यज इत्य् आह ।
एताभ्याम् वै यज्ञस् तायते यद् घृतेन च सोमेन च ।
ते अत्र प्रीणाति ।
प्रीते यज्ञम् वहात इति ।
उपांशु घृतस्य यजति ।
रेतः सिक्तिर् वै घृतम् ।
उपांशु वै रेतः सिच्यते ।
अथ यद् उच्चैः सौम्यस्य यजति ।
चन्द्रमा वै सोमः ।
निरुक्त उ वै चन्द्रमाः ।
तस्य न परस्तात् परियजेद् इत्य् आहुः ।
तथा अमी अमुत इदम् अर्वाञ्चः पश्यन्ति इति ।
परियजेद् इति त्व् एव स्थितम् ।
देव लोको वा आज्यम् ।
पितृ लोकः सोमः ।
देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति ।
अथो पितॄन् एव तत् प्रीणन्ति यत् सौम्येन चरन्ति ।
अथो एतद् उपसद उत्सृज्यन्त इत्य् आहुः ।
अग्निम् सोमम् विष्णुम् इति वा उपसत्सु प्रतियजति ।
अग्निम् सोमम् विष्णुम् इति इदम् ।
हरन्त्य् एतम् सौम्यम् सदः ।
तम् होता प्रतिगृह्य उपनिधत्ते ।
अथ अस्य सर्पिष्य् आत्मानम् पर्यवेक्ष्य अङ्गुलिभ्याम् सर्पिर् उपस्पृशति ।
चक्षुष्पा असि चक्षुर् मे पाहि इति चक्षुषी विमृजीत ।
चक्षुर् एव अस्य तद् गोपायति ।
तद् उद्गातृभ्यः प्रयच्छति ।

१६.६ पात्नीवतग्रहः
अथ पत्नीवत ग्रहेन चरन्ति ।
पत्नीर् एव तद् आहवनीय भाजः कुर्वन्ति ।
तस्य न अनुवषट् करोति ।
आज्य संसृष्टो हि भवति ।
अननुवषट् कार भाग् आज्यम् ।
उपांशु यजति ।
रेतः सिक्तिर् वै पत्नीवत ग्रह उपांशु वै रेतः सिच्यते ।
न अनुवषट् करोति ।
रेतः सिक्तिर् वै पत्नीवत ग्रहः संस्था अन्वषट् कारः ।
न इद् रेतः सिक्तम् पुरा कालात् संस्था अपयानि इति ।
तद् आहुर् यद् एषा नेष्टुर् याज्या अथ कस्माद् एनया अग्नीध्रो यजति इति ।
आग्नेयी वा एषा याज्या ।
आग्नेय आग्नीध्रः ।
तस्माद् एनया अग्नीध्रो यजति ।
अथो एवम् समा अनुक्थानाम् वषट् कारा भवन्ति इति ।

१६.७ अग्निमारुतशस्त्रम्
एकविंशत्य् आहावम् आग्मिमारुतम् शंसति ।
एकविंशो वै स्तोमः स्तोमानाम् परमः प्रतिष्ठानीयः ।
प्रतिष्ठित्या एव ।
तच् चतुर्विंशतिविधम् भवति ।
विंशतिः पर्वाणि ।
तानि चतुश् चत्वारिंशति ।
चतुश् चत्वारिंशद् अक्षरा त्रिष्टुप् ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
वैश्वानरीयम् शंसति ।
वैश्वानरीयो हि ग्रहो गृहीतो भवति ।
तम् एव एतेन अनुशंसति ।
रौद्रीम् शंसति ।
घोरो वै रुद्रः ।
भैषज्यम् एव तत् कुरुते ।
अथो अन्त भाग् वा वा एषः ।
तस्माद् एनाम् अन्त्ये शस्त्रे शंसति ।
मारुतम् शंसति ।
एतत् पूरो वै रुद्रः ।
तद् एनम् स्वेन पूगेन समर्धयति ।
अथ यज्ञायज्ञियस्य स्तोत्रिया अनुरूपौ ।
जातवेदसीयम् शंसति ।
तेन अग्निमारुतम् इत्य् आख्यायते ।
तस्माद् एनद् अभ्यग्रम् शंसेत् ।
यथा अग्निम् प्रदाव्यम् अतिमोक्ष्यमाण एवम् ।
आपो देवत्याः शंसति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते ।
तस्माद् एना आरतम् शंसेत् ।
यथा अप्सु न्युन्दान् एवम् ।
अहिम् बुध्न्यम् शंसति ।
अग्निर् वा अहिर् बुध्न्यः ।
तम् एतया उज्ज्वलयति ।
अथो धिष्ण्यान् एव एतया अनुशंसति ।
देवानाम् च पत्नी राकाम् च शंसति ।
पत्नीवत ग्रहम् एव एताभिर् अनुशंसति ।
अथो अन्त भाजो वै पत्न्यः ।
तस्माद् एना अन्त्ये शस्त्रे शंसति ।

१६.८ अक्षरपङ्क्तयः
अक्षर पङ्क्तयः शंसति ।
पशवो वा अक्षर पङ्क्तयः ।
पशूनाम् एव आप्त्यै ।
अथो प्राण अपानौ वा अक्षर पङ्क्तयः ।
प्राण अपानाव् एव तद् आत्मन् धत्ते ।
अथो शस्त्रस्य एव स इन्द्रतायै ।
पैत्रीश् च यामीश् च शंसति ।
नाराशंसान् एव एताभिर् अनुशंसति ।
अथो अन्त भाजो वै पितरः ।
तस्माद् एनान् अन्त्ये शस्त्रे शंसति ।
स्वादुष्किलीयाः शंसति ।
सोमम् एव एताभिर् इन्द्राय स्वदयति ।
अथो देव लोको वा इन्द्रः ।
पितृ लोको यमः ।
देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति ।
तास्व् अध्वर्युर् मद्वत् प्रत्यागृणाति ।
मद्वद्द् हि तृतीय सवनम् ।
वैष्णुवारुणीम् शंसति ।
यज्ञो वै वैष्णुवारुणः ।
यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति ।
तद् एतया भिषज्यति ।
भैषज्यम् एव एषा ।
वैष्णवीम् च आग्नेयीम् च शंसति ।
अग्नाविष्णू वै देवानाम् अन्त भाजौ ।
तस्माद् एनाव् अन्त्ये शस्त्रे शंसति ।
ऐन्द्र्या परिदधाति ।
इन्द्रस्य ह्य् एषः ।
तम् इन्द्र एव अन्ततः प्रतिष्ठापयति ।

१६.९ सोमयागदेवतामीमांसा
किम् देवत्यः सोम इति मधुको गौश्रवम् पप्रच्छ ।
स ह सोमः पवत इत्य् अनुद्रुत्य ।
एतस्य वा अन्ये स्युर् इति प्र्त्युवाच ।
बह्वृचवद् एव ।
ऐन्द्र इति त्व् एव पैङ्ग्यस्य स्थितिर् आस ।
ऐन्द्राग्न इति कौषीतकेः ।
अग्निना वै प्रतिपद्यते यद् आज्येन ।
इन्द्रम् अनु संतिष्ठत एताम् परिधानीयाम् ।
तस्माद् ऐन्द्राग्न इति ।
एष वा अग्निष्टोमः ।
एष वा उ कामाय कामाय आह्रियते ।
यो ह वा एतेन अनिष्ट्वा अथ अन्येन यजते ।
कर्तपत्यम् एव तज् जीयते प्र वा मीयत इति ह स्म आह ।
स वा एषो अग्निष्टोम आज्य प्रभृत्या अग्नि मारुत अन्तः ।
यत् शस्यंस् त्रीणि षष्टि शतान्य् ऋचाम् सम्पद्यन्ते ।
त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।
तत् संवत्सरस्य अहान्य् आप्नोति ।
अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिर् इत्य् उक्थम् शस्त्वा यजत्य् आग्निमारुत्या ।
आग्मिमारुतम् ह्य् एतद् उक्थम् ।
जगत्या जागतम् हि तृतीय सवनम् ।
मद्वत्या मद्वद्द् हि तृतीय सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।

१६.१० सौत्रामणिः
सोमेनेष्ट्वा सौत्रामण्या यजेत
श्रियं प्रजां विराजं चेच्छन्
ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः
आत्मा वै यज्ञस्य त्रिपशुर्बाहूपशुस्तस्मादात्मानमभितो बाहू भवतः
तस्मादात्मानमभितः पार्श्वे स्यातां
यत्सुरासोमग्रहाननुवषट्कृत्य सर्वे तस्मात्सोमेनेष्ट्वा सौत्रामणीं कुर्याद्
य एवं विद्वान्सोमेनेष्ट्वा सौत्रामण्या यजेत
स श्रियं प्रजां विराजमाप्नोति यश्चैवं वेद
श्रीर्विराळन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अवभृथमवैति
यथा सोमे मैत्रावरुण्या वा पयस्यया यजेत
तस्या उक्तं ब्राह्मणम् ।। १० ।।

१६.११ उक्थ्योक्थ्यम्
ऐन्द्राग्नान्य् उक्थ्य उक्थानि भवन्ति ।
इन्द्राग्नी वै सर्वे देवाः ।
वैश्वदेवम् तृतीय सवनम् ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
आग्नेयीषु मैत्रावरुणाय प्रणयन्त्य् ऐन्द्रीष्व् इतरयोः ।
तेन तान्य् ऐन्द्राग्नानि भवन्ति ।
चत्वारि चत्वारि सूक्तानि शंसन्ति ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
तानि द्वादश सम्पद्यन्ते ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
चतुर् आहावानि शस्त्राणि ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
द्विदेवत्या उक्थ याज्याः ।
द्विपाद् यजमानः ।
प्रतिष्ठित्यै ।
तानि चत्वारि सम्पद्यन्ते ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव अपाप्त्यै ।
ऐन्द्रावरुणी मैत्रावरुणस्य ।
ऐन्द्रावरुणम् ह्य् अस्य उक्थम् भवति ।
ऐन्द्राबार्हस्पत्या ब्राह्मण आच्छंसिनः ।
ऐन्द्रावैष्णवम् ह्य् अस्य उक्थम् भवति ।
प्रथम उत्तमे मद्वत्यौ ।
मद्वद्द् हि तृतीय सवनम् ।
ता वै त्रिष्टुभो भवन्ति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधति ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।