शाब्दनिर्णयः ।
६७
कृतम् । योग्यत्वे तु पौरुषेयता स्यादिति । नैतत् सारम् । अयोग्यविषयस्यापि बुद्धादिवाक्यस्य पौरुषेयत्वदर्शनाद् , योग्यविषयस्यापि ‘वायुर्वै क्षेपिष्ठेत्यादेरपौरुषेयत्वदर्शनाच्च । विधिसंसर्गेऽप्यर्थवादेन न विधिः प्रतिपद्यते [१]। किन्तु प्रशंसादिरेव प्रमाणान्तरयोग्योऽर्थः[२] । तस्मादन्यदेव पौरुषेयत्वादेः[३] कारणम् । अथ मा भूत् पौरुषेयत्वम् । अपौरुषेयत्वं[४] तु कुतः । न । असाध्यत्वात् । प्रामाण्यं तर्हि वेदस्य कथं , तस्मिन् सत्यबाध्यमानप्रमितिजननात् । शाब्दप्रमितेस्तु बाधोऽपेक्ष्यमाणप्रमितिबाधात् । पौरुषेयत्वाभावात् तु प्रमित्यन्तरापेक्षा नास्तीत्युक्तम् । तस्मादबाधः ॥ ६६ ॥ अतः सिद्धं ब्रह्मणि शब्दस्य प्रामाण्यमित्याह-
अतः सत्यादिशब्दास्तु संसृष्टार्थोक्तिशक्तित:।
मानान्तरस्याविषयं भूतार्थे बोधयन्ति नः ॥ ६७ ॥
के पुनः शब्दा ब्रह्मस्वरूपसमर्पकाः, के पुनः सोपाधिकरूपसमर्पका इति तत्राह-
अनुपाधिप्रवृत्ताभिर्ज्ञानानन्दसदुक्तिभिः[५] ।
स्वसामान्याभिधानेन व्यक्तिरेका समर्प्यते ॥ । ६८ ॥
ज्ञानानन्दसच्छब्दाः परापरसामान्यवाचकत्वात् सामानाधिकरण्याच्च स्वसामान्याभिधानमुखेनैकामानन्दव्यक्तिमपरसामान्यव्यञ्जितां ब्रह्मत्वेन लक्षयन्ति , सन्मूर्तं द्रव्यं