पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

६८

शाब्दनिर्णयः ।

कुड्यमिति च परापरसामान्यानामेकत्र वृत्तिदर्शनात् । तथाच‘यतो वा इमानि भूतानीति[१]लक्षणं निर्दिश्य ‘आनन्दाद्द्ध्येव खल्विमानीति लक्ष्यं[२] ब्रह्मानन्दं निर्दिशति । तत्रानन्दस्य परप्रकाश्य[३] (क?)तानिवृत्तये ज्ञानशब्दः। स्वभावतः शून्यतानिवृत्तये सच्छब्दः । अथवा ब्रह्मव्यतिरिक्तस्यानन्दस्य ज्ञानस्य सतश्चाभावात् तत्सामान्ययोगाद् ब्रह्मैव सदादिशब्दैरभिधीयते । ननु तर्हि तेषां पर्यायत्वप्रसङ्गः । न । तुच्छजाड्यदुःखविरोध्युपाधिभेदेन प्रवृत्तेः । नन्वेवं सदादिशब्दानां निरुपाधिकवृत्तित्वं न स्यात् । नैष दोषः । सामान्योपाधौ दुःखादिविरोध्युपाधौ वा नियतैकस्मिन् वस्तुनि बुद्धिमुत्पादयन्तीति निरुपाधिकाः।अस्थूलादिशब्दास्तु (अ)नियतवस्तुविषया[४] उपाधितन्त्रा इतेि ।ननु तुच्छादुिविरोधित्वमप्रतिपाद्यापि सदादिव्यवहारो दृश्यते । तर्हि मायानिर्मितानामपि ज्ञानानन्दसतां प्रतीतेः सामान्यपक्ष [५] एवाश्रीयताम्। ननु सामान्यानामपि मायात्मकत्वादानन्दादिरूपता ब्रह्मणो न स्यात् । आनन्दादिसामान्याश्रयत्वमात्रत्वादानन्दादिस्वरूपताया न परमार्थसामान्याश्रयत्वमपेक्ष्यते । ननु मिथ्यारजतसम्भिन्ना शुक्तिर्न रजतमिति व्यवह्रियते । सत्यं , रजताभासत्वात् तस्य । इह तु सामान्यान्तराभावात् तेषां न सामान्याभासत्वम् । तस्मादानन्दादिसामान्याश्रयत्वदानन्दादिरूपता ब्रह्मणः सिद्धा। तस्य चानन्दस्य मिथ्यात्वविरोधः सत्यशब्देनोच्यते । अद्वितीया-


  1. 'नि जायन्ते इति' क. पाठः.
  2. ‘क्ष्यं नेि' ख. ग. पाठः
  3. ‘शकता',
  4. ‘या इ' क. पाठः.
  5. ‘न्यमेवा' ख. ग. पाठः