६६
शाब्द निणयः ।
वेदाध्ययनशब्दार्थव्यवहारोयथाधुना ।
तथैव पूर्वकालेऽपीत्यनुमानं प्रवर्तताम् ॥ ६६ ॥
विवादाध्यासितौ वेदाध्ययनशब्दार्थव्यवहारौ पूर्वपूर्वत-[१] थाविधाध्ययनादिनिबन्धनौ, वेदाध्ययनादित्वाद् इदानींतन[२] वेदाध्ययनादिवत । न च वाक्याध्ययनत्वाद् भारतादिवदिदंप्रथमतानुमानं , सामान्यतोदृष्टस्य वेदाध्ययनत्वादिति विशेषतोदृष्टविरोधे दुर्बलत्वात् । नचागमविरोधः[३] । सृष्टिश्रुतेर्निष्पाद्यतामात्रविषयत्वात्। ननु सर्वज्ञश्रुतेरीश्वरं धर्माधर्माद्युपलभ्य वेदं करिष्यति । न । निरपेक्षप्रामाण्यमन्तरेण सर्वज्ञत्वासेिद्धे: । किञ्च ईश्वरः स्वरूपज्ञानेन सर्वज्ञः । न तत्र लोकवद् वागादीनि वाक्यरचनाकारणानि [४] सन्ति,युक्तावस्थायामिव योगिनाम् । अथ विग्रहोपादानेन वागादिभिर्वाक्यं कुर्यात् । न । तत्र चैतन्यस्यावच्छेदादसर्वज्ञत्वाद्,वियुक्तावस्थायामिव योगिनाम् । अथ स्वरूपज्ञानेन सर्वमुपलभ्य विग्रहोपादानेन सर्वमुपलब्धमनुस्मरन् वाक्यं कुर्यात् । न । स्वरूपज्ञानस्य संस्काराभावात् । न च धर्माधर्मब्रह्मसु प्रमाणान्तरमस्ति । अत्र स्वयूथ्यैरिदमुक्तम् –मा भूद् धर्माधर्मयोर्मानान्तरयोग्यता । ब्रह्मणस्तु भूतत्वाद् मानान्तरयोग्यत्वात् तद्विषयवेदान्तवाक्यानां[५]पौरुषेयत्वमेव स्यात् । अतस्तत्पारिहाराय तेषामपि कार्यनिष्ठता वर्णयितव्येति । तथा[६] “सत्सम्प्रयोगे -",[७] इति मानान्तरयोग्यत्वमपौरुषेयत्वसिद्धये निरा-