पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

६५

नन्वेवमभिधानाभिधेयसम्बन्धस्य साङ्केतिकत्वाद् वाक्यस्य च लोकवत् पौरुषेयत्वाद् धर्माधर्मब्रह्मसु च प्रत्ययान्तरायोगाद् न शब्दानां तेषु प्रामाण्यामित्यत आह-

स्वार्थप्रवृत्तमापूर्वजन्यश्चेद् वेद इष्यते ।

ईश्वरज्ञानवन्न स्यात् कार्यत्वे सिद्धसाधनम् ॥ ६५॥

यदि तावत् स्वार्थप्रवृत्तप्रमाणान्तरजन्यत्वं नाम पौरुषेयत्वं वेदस्य साध्यते, तत्र प्रत्यनुमानं – वेदः स्वार्थप्रवृत्तप्रमाणान्तरजन्यो न भवति , अनीश्वरबुद्धितत्कार्यत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वाद् , ईश्वरज्ञानवत् । ईश्वरवादिनां पौरुषेयत्वेन प्रामाण्यवादिनां च प्रत्यनुमानम् । अथ न प्रामाण्यं धर्मादिषु वेदस्येत्यसिद्धो हेतुः । नापीश्वर इत्याश्रयहीनो दृष्टान्त इति । तर्हि किं साध्यते । कार्यतामात्रं[१] चेत् , सिद्धसाधनम् । यदि वर्णाः प्रत्युच्चारणं निष्पाद्यन्ते, तदा तएव क्रमविशेषसमारूढतया वेदशब्दाभिधेया इति प्रत्युच्चारणं वेदो निष्पाद्यते । यदि वा नित्या वर्णाः, तथाप्युपलब्ध्यादिक्रमविशेषसम्भिन्ना एव वेद् इति[२] प्रत्युच्चारणं निष्पाद्यते । क्रमविशेषसादृश्यपरम्परयानिदंप्रथमत्वाञ्च वेदे[३] नित्यताभिधानम् ॥ ६५ ॥ अथ वेदाध्ययनाभिधानाभिधेयसम्बन्धयोरिदंप्रथमता साध्यते। तत्राह-


  1. ‘र्यमा',
  2. 'त्युच्चा' ख. ग. पाठः
  3. ‘द’ क. पाठः