सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८७ ॥ श्रीमद्रोविन्दराजीयव्याख्यांसमलंकृतम् । ३४ ३ यः स वासवनिर्जेता रावणस्यात्मसंभवः । स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥ तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः॥ जीवितान्तकरैर्वीरैः सौमित्रे रावणिं जहि ॥ ३४ ॥ इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ॥ ददर्श तं पर्वतसन्निकाशं गृणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ।। सप्ताशीतितमः सर्गः ॥ ८७ ॥ विभीषणेनलक्ष्मणंप्रति निकुंभिलायन्यग्रोधतरुप्रदर्शनपूर्वकंतत्रहोमसमाप्तविन्द्रजितोदुर्जयश्वोक्त्यान्यग्रोधतलप्रवेशा स्प्रगेवतद्वधचोदना ॥ १ ॥ लक्ष्मणेनरणायसमाहूतेनेन्द्रजितातत्पार्श्वस्थंविभीषणंप्रतिभ्रातृपक्षपरित्यागेनपरपक्षसमाश्रयणा- दिदोषोकीर्तनपूर्वकं गर्हणम् ॥ २ ॥ विभीषणेनतंप्रतिरावणदोषोद्धाटनपूर्वकं तस्यागस्यन्याय्यस्वोक्तयातद्भर्हणम् ॥ ३ ॥ एवमुक्त्वा तु सौमित्रिं जतहर्षा विभीषणः । धनुष्पाणिनमादाय त्वरमाणो जैगाम ह ॥ १ ॥ अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ॥ →र्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २॥ नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् ॥ तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३ ॥ इहोपहारं भूतानां बलवात्रावणात्मजः ॥ उपहत्य ततः पश्चात्सङ्गममभिवर्तते ॥ ४ ॥ अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शशून्वभाति च शरोत्तमैः ॥ ५॥ तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् । विध्यंसय शैरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६ ॥ तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः॥ ७ ॥ स रथेनाग्निवर्णेन बलवात्रावणात्मजः ॥ इन्द्रजित्कवची धुन्ची सध्वजः प्रत्यदृश्यत ॥ ८ ॥ तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९॥ एवमुक्तो महातेजा मनस्वी रावणात्मजः ॥ अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥ इह त्वं जातसंवृद्धः साक्षाद्राता पितुर्मम ॥ कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥ ॥ ३१-३२॥ यः सः । प्रसिद्धो य इत्यर्थः ।।३३॥ | उपहरं बलिं । उपहृत्य कृत्वा। ओदनपाकं पचती- अप्रतिमसंस्थानैः अनुपमसन्निवेशैः करवीरपत्राद्याका- | तिवत् । ततः तस्माद्देशात् ।। ४~५ । अप्रविष्टन्य- रैरित्यर्थः । ३४ ॥ अरिविभीषणेन शत्रुभयंकरेण | ग्रोधं रावणात्मजं विध्वंसय । पुनः प्रवेशात्पूर्वमेव ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | विध्वंसयेत्यर्थः । । ६--८ ॥ महातेजा इति लक्ष्मणो णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षड- | विशेष्यः । सम्यग्युद्धे अमायायुद्धे ॥ ९ ॥ मनस्वी शीतितमः सर्गः ॥ ८६ ॥ दृढमनस्क ॥ १० ॥ इह लङ्कायां । जातसंवृद्धः । पूर्वकाल–’ इत्यादिना पूर्वकालार्थवाचिनो जात अथेन्द्रजिद्विभीषणसंवादः-एवमुक्त्वेत्यादि । शब्दस्य उत्तरकालार्थवाचिना संवृद्धशब्देन सह धनुष्पाणिनमिति नकारान्तत्वमार्षभ् ॥ । १ ॥ अवि- | समासः। पुत्रस्य पुत्राय । ‘‘ऋधद्रह--य इत्यादिना दूरमिति । तत्कर्म होमकर्मस्थानम् ॥ २–३ ॥| चतुर्थानियमात् । राक्षसेत्यनेन साजात्यमपि न दृष्ट [ पा० ] १ ख. ग. ध. ज. अ. रथेस्थितं. ङ. च. झ. ट. रथस्थितं . २ घने जातरोषो. ३ क. ~•च. ज. झ. ट. जगामसः ४ ङ. च. झ. ट. अदर्शयत. ५ ज, झ. शरैर्दानैः६ ङ. झ. खङ्गी. 4