सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ [ अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः॥ वरितमथ तदा स रामपाईं कपिनिवहैश्च सुपूजितो जगाम ॥ ११६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥ द्विसप्ततितमः सर्गः ॥ ७२ ॥ ० अतिकायनिधनश्रवणविषण्णेनरावणेन धूम्राक्षप्रभृतिबन्धुजनस्सरणेनतच्छोचनपूर्वकं राक्षसान्प्रतिविशेपतो नगरादिरक्षण नियोजनपूर्वकं भवनप्रवेशः ॥ १ ॥ अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा ।। उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ १ ॥ धूम्राक्षः परमामर्षी धेन्वी शस्त्रभृतां वरः। । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ २ ॥ एते महाबला वीरा राक्षसा युद्धकाङ्किणः ॥ जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ३ ॥ निहतास्ते महावीर्यो रामेणाक्लिष्टकर्मणा ॥ राक्षसाः सुमहाकाया नानाशस्त्रविशारदः। अन्ये च बहवः शरा महात्मानो निपातिताः ॥ ४ ॥ प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।। यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः । ॥ ५॥ यन शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ॥ मोठं तद्धन्धनं घेरं यक्षगन्धर्वकिन्नरैः ॥ ६ ॥ तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥ शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥ ७ ॥ ये योधा निर्गताः शूरा राक्षसा मम शासनात् । ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ॥ ८ ॥ तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् । शासयेत्सबलं वीरं ससुग्रीवविभीषणम् ॥ ९ ॥ अहो धै बलघात्रामो महदस्त्रबलं च वै ॥ यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥ १० ॥ तं मन्ये राघवं वीरं नारायणमनामयम् । तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ॥ ११ ॥ । जयस्य भागः प्राप्तिः सोऽस्यास्तीतीष्टभागी तं।।११५ बन्धनं वर्णयति-—यदिति । यद्वन्धनं सुरादिभिः ११६। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण मोक्तुं मोचयितुं । अशक्यं तद्वन्धनं घोरं । भ्रातरौ षणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकसप्तति तौ शरबन्धाद्विमुक्ताविति यत् तप्रभावादिषु केन वा तमः सर्गः ॥ ७१ ॥ जातं न जान इत्यन्वयः । प्रभावः सामथ्ये । माया व्यामोहकारिणी विद्या । मोहन औषधादिकं ।।५- अथ रावणचिन्ता–अतिकायमित्यादि । १-४॥ प्रख्यातेत्यादिश्लोकत्रयमेकं वाक्यं । वीरौ यौ भ्रातरौ ९॥ अहो न्वित्यादिश्लोकद्वयमेकान्वयं । पिहित- खरदूषणादिवधेन प्रसिद्धौ तावपि बद्धौ । तदेव | द्वारतोरणा द्वारं अन्तङ्करं तोरणंबहिङ्करें ॥१०-११॥ स्माभिःप्राक्ततनुसंधेयः ॥ १११ ॥ ति० त्रिशिरोतिकायदेवान्तकनरान्तकमहोदरमहापार्थानांषभिर्दिनैर्भाद्राश्विनकृष्णषष्ठयन्ते- नवधइत्यग्रेस्पष्टम् ॥ ११६ ॥ इत्येकसप्ततितमःसर्गः ॥ ७१ ॥ ती० प्रख्यातबलवीर्येणेत्यादिश्लोकत्रयमेकंवाक्यं । यौखरदूषणादिनिरासकौतौभ्रातरौ इन्द्रजिता दत्तवरैःशरैर्बद्धौ । यद्वन्धनं सुरासुरादिभिःप्रत्येकंमोर्तुमचयितृनशक्यं । तद्वन्धनं घोरैः प्रचण्डैः सर्वैःसमुदितैरपिमोक्तृनशक्यं । तौरामलक्ष्मणौ प्रभावैः। सहजसामथ्यैः मायया विचित्रशक्त्या मोहनेन बन्धकनागपाशमोहनेनवा । शरबन्धाद्विमुक्कौ तन्नजानइतियोजना ।। ५-७ ॥ स० अनामयं कार्यवाचकपदेनकारणदोषोगृह्यते । निर्दोषं नारायणं ॥ ११ ॥ इतिद्विसप्ततितमःसर्गः ॥ ७२ ॥ [ पा० ] १ ख. ङ. च. झ. अ. ट. महात्मना २ ड. झ. ज. ट. सर्वशस्त्रभृतां. ३ ङ झ. ट. ससैन्यास्तेहतावीरारामेण. ग. घ. ससैन्यास्ते महावीर्यारामेण. ख. ससैन्यास्तेमहाकायारामेण. ४ छ. ज. घोरंसवैःसमुदितैरपि. ड़, झ. ट. घोरंयक्षगन्ध र्वपन्नगैः, ५ ङ, झ. ट. नाशयेत्सबलं, ६ क, ग, घ, ङ, झ, अ ट. सुबलवन् "