सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्य च्छिद्राणि मार्गख खच्छिद्राणि च लक्षय । चक्षुषा धेनुषा यत्नाद्रक्षात्मानं समाहितः ।५१॥ राघवस्य वचः श्रुत्वा पैरिष्वज्याभिपूज्य च ॥ ऽभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥५२ ॥ स रावणं वीरणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ॥ प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५३ ॥ तमालोक्य महातेजा हनुमान्मारुतात्मजः ॥ निवार्य शरजालानि प्रदुद्राव स रावणम् ॥ ५४ ॥ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् । त्रासयत्रावणं धीमान्हनुमान्वाक्यमब्रवीत् ॥ ५५ ॥ देवंदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ॥ अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ ५६ ॥ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ॥ विधमिष्यति ते देहैर्दैतात्मानं चिरोषितम् ॥ ५७॥ श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ॥ संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५८ ॥ क्षिप्रं प्रहर निश्शठं स्थिरां कीर्तिमवाप्नुहि ॥ ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ५९॥ रावणस्य वचः श्रुत्वा वायुम्ननुर्वचोऽब्रवीत् ॥ प्रहृतं हि मया पूर्वमझ सर सुतं तव ॥ ६० ॥ एवमुक्तो महातेजा रावणो राक्षसेश्वरः ॥ आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६१ ॥ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः। स्थित्वा मुहूर्त तेजस्वी स्थैर्यं कृत्वा महामतिः । आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ॥ ६२ ॥ ततस्तलेनाभिहतो वानरेण महात्मना ॥ दशग्रीवः समाधूतो यथा भूमिचलेऽचलः॥ ६३ ॥ संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ॥ मृषयो वानराः सिद्धा नेदुर्देवाः सँहासुरैः ॥ ६४ ॥ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ साधु वानर वीर्येण श्लाघनीयोसि मे रिपुः॥ ६५ ॥ तथा पश्येत्यर्थः । यद्वा लक्ष्य लक्षित्वा प्रच्छाद्ये- | स्थिरां कीर्तिमवाप्नुहीति सोपालम्भोक्तिः । हनुमान् त्यर्थः । एवं समाहितः सावधनः सन् । धनुषा | रावणमुपसृत्य प्रहृतवानित्येतादृशीं किर्तिमवाप्स्यसी- आमानं रक्ष । । ५०-५१ ॥ अभिपूज्य प्रदक्षिणी-त्यर्थः। ज्ञातविक्रान्तं ज्ञातविक्रमं । भावे क्तः ॥५९॥ कृत्येत्यर्थः ॥ ५२-५३ ।। तमालोक्येति भृत्ये मयि | रावणवचनं ज्ञात्वा तदुचितमुत्तरमाह--प्रहृतं हीति विद्यमाने कथमसौ समासीदतीति जगामेत्यर्थः ।। ६० ॥ एवमुक्तइति । मर्मोद्धाटनेन संजातरोष ॥ ५४--५५ ॥ भयं प्राप्तमिति शेषः ॥ ५६ ॥ इत्यर्थः ॥ ६१ ॥ तलेनेति । रावणेन तलेन प्रहरणात् पञ्चशाखः पश्चङ्कलिकः । भूतात्मानं विधमिष्यति स्वयमपि तलेनैवप्राहरदितिभावः ॥ ६२ ॥ समाधूतः निष्क्रामयिष्यति । धातूनामनेकार्थत्वात् ॥५७-५८॥ | कम्पितः। अभूत् । भूमिचले भूकम्पेसति । अचलः स० छिद्राणि मर्माणि मार्गख परीक्षख । स्खच्छिद्राणि गोपय रक्ष । चक्षुषातं लक्षय । स्वसमाहितः स्वेनैवसमाहितः । समसमवक्तानान्योस्तीतिभावः । एतावत्युक्तिःकुतइत्यतोवाह-खसमाहितः सु अत्यन्तं असमो विषमः अहितो वैरीयस्यसतथा त्वमित्यर्थः ॥ ५१ ॥ स० वानरेभ्यःकपिभ्यः। तेभ्योऽवृतवद्वरस्येतिभावः। नरेभ्यइत्यपि कपिसाम्याद्वक्तव्यं । तथापि स्खस्यै- वपुरःस्थितेः खजातेश्रृंहणमित्यवगन्तव्यं । वानरेभ्यइत्यत्राऽऽवृत्यातत्राषिपदच्छेदेन वानरेभ्योवातेभ्यइवनरेभ्योपिभयमित्यन्वय करणेनतदुक्तिद्देयेति अस्मत्तः कपिभ्यइत्यनुक्खा उक्त्वाचवानरेभ्यइतिकविर्दनयाश्चक्रे ॥ ५६ ॥ स० यतो येन । मुत् संतोषः । स तेबाहुः अदक्षिणः ताडनाकुशलः असमर्थइतियावत् । एषमेपंचशाखोहस्तः तेदेहेचिरोषितंभूतात्मानंप्राणं विधमिष्यति बहिर्नि स्सारयति । अभूतात्मानं मुख्यप्राणमितिवा ॥ ५७ ॥ रामानु० ज्ञातविक्रान्तमितिवचनं सोल्लुण्ठनं । ज्ञावातदुचितमुत्तरमाह प्रहृतमिति ॥ ६० ॥ स० देवाः राजानः सुरासुरैःसहनेदुः। ‘‘देवःसुरेघनेराज्ञि’’ इति विश्वः ॥ ६४ ॥ [ पा० ] १ क-ज. गोपय. २ ङ. झ. ट. धनुषात्मानंगोपायखसमाहितः, ३ क. ख. घ. -ट. संपरिष्वज्यपूज्यच. ४ क ग, घ, ङ. झ. ट. अभिवाद्यचरामाय ५ ङ. झ. ट. राहवे. ६ क. झ. वरणहस्तबाहुं ७ ग, मुष्टिमुद्यम्य ८ क. -घ. च• छ. अ. देवदानवगन्धर्वयक्षाश्वसहराक्षसः । अवश्यंभवताभमवानरेभ्यस्तु तेभयं. १ घ. ङ. झ. ट. देहेभूतात्मानं १० ङ. झ. ट• सुरासुरैः. क. -घ, सहासुर।