पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५९
श्रीभविष्योतपुराणे दशमोऽध्यायः


विष्वक्सेनः-'तम्बुरोस्तीर्थमासNध हरे! तत्रावगाहते ।
पुत्रस्तव महारजः परमात्मा चतुर्नवः ॥ ७१

पुत्रस्तबागच्छतीह भवद्दर्शनकौतुकी ।
सेनापतौ वदस्येवं भगवानुत्थितो मुदा ॥ ७२

गर्डकथमारूढः प्रयाणाभिमुखो हरिः ।
उत्तराभिमुखः प्रायत् पुत्रस्नेहेन भूमिप ! ॥ ७३

विष्वक्सेनोऽतिवेगेन ब्रह्मणमुपगम्य च ।
आनम्य शिरसा भक्तयः प्रोवाच वचनं विधिम् ॥ ७४

चतुर्मुखश्रीनिवासयोः परस्परप्रयाणमलोकमसंवादः

विष्वक्सेनः-'भगवानरविन्दाक्षः तत्र दीनलाइसः ।
गरुडकधमारुह्य समागच्छति तेऽन्तकम् '॥ ७५

तच्छुवा वचन तस्य विष्वक्सेनस्य धीमतः ।।
चन्द्रविम्वनिभद्मसात् अवरुद्ध पितामहः ॥ ७६

पादभ्याभागमच्छीघ्र यत्रऽगच्छति केशवः ।
स ददर्श महाराज! जनक चतुराननः ॥ ७७

दण्डवप्रणिपत्याथ चाग्रे बढ़ करौ स्थितः ।
स चाविरुह्य गरुडात् आससाद पितामहम् ॥ ७८

उत्थाप्यऽलिय चाप्येनं उबच मधुसूदनः ।
श्रीनिवासः-'उअतिष्ठ तात! भद्रं ते पश्य मामातुरं कृशम् ॥ ७९

बहुकालेन ते बुद्धिः मम दर्शनलालसा।
तदेव परमं स्वे स्वद्भिर्मम दर्शने ॥ ८०

ौतूहलं नोपनीत कदाचिदपि येन वै।
न कश्चिद्भिश्ते कपि वां विना चतुरानने! ॥ ८१