पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३५८
श्रीवेङ्कटाचलमाहात्म्यम्


स महोन; सपुत्राश्च सशिष्याः सपरिग्रहः ।
एवं विभवमास्थाय ब्रह्माऽगाढंकटचलम् ॥ ६०

वादित्राणां स्वनेनैव दुन्दुभीनश्च निस्वनैः।
आपूरितं जगदिदं सशैलवनकाननम् ॥ ६१

श्रीनिगरं प्रति चारादिज्ञापितब्रह्मागमनम्

एतस्मिन्नेव काले तु भगवन् लैौकिकैः समः ।
अदृष्ट। खगराजतं मातरं वाक्यमब्रवीत् ॥ ६२

श्रीनिवास-‘किं नागतोऽव! खगराट् पुत्रार्थं प्रेषितो मया।
मार्गे निरोधितः केन किं वा स्यात् कारणं वद?' ॥ ६३

एवं वदति गोबिन्दे चरो दृष्टिपथं गतः ।
चरं दृष्टाऽतिसन्तोषं स लेभे पुरुषोत्तमः ॥ ६४

‘इ चार ! मम पुत्रस्तु केन वै प्रेषितो भवान् ?’ ।
चारः- 'आगमिष्यति गोविन्द ! गङ्गां तरति ते सुतः ॥ ६५

एवं वदति तच्चरे पुनरेकोऽभ्यभाषत ।
द्वितीयः- ‘गोदावरीं तरति ते पुत्रः पौरजनैः सह ॥ ६६

स दूतवचनं श्रुत्वा किञ्चिद्धास्यमुखोऽभवत् । ।
तदा जगाम गरुडः पक्षिराट् ब्रह्मचोदितः ॥ ६७

प्रणिपत्य श्रीनिवासं प्रोवाच च वचस्तदा।
गरुड- ‘कृष्णं तीर्वा तु ते पुत्रः श्रीशैलमुपगम्य च ॥ ६८

अहोबिलं चाससाद तत्राऽज्ञप्तोऽहमागतः ।
इत्येवमुच्यमाने तु गरुडेन महामना ॥ ६९

तक्षणेनैव राजेन्द्र ! विध्ववसेनेऽभिवन्द्य च ।
विनीतो बचमूचेऽथ श्रीनिवासं पशथरम् ॥ ७०