पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः


श्रीवेङ्कटाचलमाहाम्यम्


*******


(श्रीकान्दपुराणान्नर्गतम् )


(तृतीयो भागः)


हरिः ॐ


अर्जु-तीर्थयात्राक्रमः



ॐ पावन नैमिशारण्ये शौनकाद्या महर्षयः ।
चक्रिरे लोकरक्षार्थं सत्त्रं द्वादशवार्षिकम् ॥ १

तानभ्यगच्छत् कथको न्यासशिष्यो महामतिः ।
मुनिरुप्यश्रवा नाम रोमहर्षणसम्भवः ॥ २

सभ्यगभ्यर्चितस्तेषां सूतः पौराणिकोत्तमः ।
कथयामास तद्दिव्यं पुराणे स्कन्दनामकम् ॥ ३

सृष्टिसंहारवंशानां वंशानुचरितस्य च )
कथां मन्वन्तराणश्च विस्तरात् स न्यवेदयत् ॥ ४

तथा तीर्थप्रभावांस्तु श्रुत्वा ते मुनिपुङ्गवाः।
अचिरे वचनं तं कथाश्रवणकङ्कया ॥ ५

ऋषय --

तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ।
नदीनां पर्वतानाञ्च क्षेत्राणां सरसामपि ॥ ६