पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
श्रीस्कन्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः


कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ।
तब पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ॥ ८८

तस्माकटाहीर्थन्तु सेवनीयं प्रयत्नतः ।
तस्मिंस्तीर्थे महाभाग! पीत्व जलमनुत्तमम् ॥ ८९

पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ।
मामकं लोकमागत्य सुखी भव महामते ।।
इत्युक्ता वेङ्कटेशोऽसैौ अन्तर्धानं गतस्ततः ॥ ९०

श्रीसूतः---

तस्मात्तपोधनाः सर्वे शौनकाद्य महौजसः ।
टतीर्थमाहात्म्यं इतिहससमन्वितम् ।
यथाश्रुतं मया सम्यक् तथोक्त भवतां द्वचः॥ ९१

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाल्थे तशौनकसंवादे


कहतीर्थप्रशसनं नाम सप्तत्रिंशोऽध्यायः ॥


समाप्तो द्वितीयो भागः



श्रीवेङ्कटाद्रिनिलयः कमलकामुकः पुमान् ।


अभक्षुरविभूनितरङ्गयतु मङ्गलम् ।


॥ श्रोरस्त् ॥