पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
श्रीस्कन्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः


निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ।
नीता भुवमगस्येन व्याख्याता भवताऽनघ ! ॥ ७

तदुत्पतिप्रभावश्च तथाघास्तस्समाश्रयान् ।
श्रोत्रं सम्प्रीतिस्रफला तन्नो वक्तुं त्वमर्हसि। ॥ ८

प्रणम्य शम्भु नन्दीशं षडास्यं व्यासमेव च । ।
मुनिभिः प्रार्थितः सूतः तदा वक्तुं प्रचक्रमे ॥ ९

भीमूतः-- साधु पृष्टं महाभागः ! भवद्भर्मङ्गलावहम् ।
भाख्यानमेतदाम्नायश्रवणङ्नसिद्धिदम् ॥ १०

शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ।
भरद्वाजेन कथितां पार्थाय कथयामि वः ॥ ११

भवाप्य दुपदात् प्रज्ञा याज्ञसेनीं पृथासुतः ।
धृतराष्ट्रनिदेशेन जमुः करिपुरं शुभम् ॥ १२

भीष्मेण चाम्बिकेयेन तत्र सम्मानितास्तदा।
दुर्योधनादिभिः सार्द्ध न्यवसन् पञ्च क्सरान् ॥ १३

नतोऽनुशिष्टो भीष्मावैः धृतराष्ट्रो महयशाः।
सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥ १४

प्रददौ पाण्डुपुत्रेभ्यः सरसेशहृष्टमानसः ।
सार्धराज्यं पुरखरं खाण्डवप्रस्थसंज्ञिकम् ॥ १५

आमन्त्र्य पाण्डुतनयाः धृतराष्ट्रादिकान् कुरून् ।
जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः ॥ १६

इन्द्रप्रस्थाद्वये तत्र रचिते विश्वकर्मणा।
वसन् पुरेऽविषत् पृथ्वीं सानुजो धर्मनन्दनः ॥ १७

गते कृष्णे निजपुरं नारदस्यानुशासनात् ।
प्रतिज्ञां चक्रिरे पार्थाः धर्मज्ञ। वैौपहीं प्रति ।। १८