पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
श्रीवेङ्कटाचलमाहात्म्यम्


अर्जुनतीर्थयात्रोपोद्वातः



यथाक्रमेण सा कृष्ण वर्षमेकैकमादरात् ।
एकैकस्य गृहे तिष्टेव् प्रतिनिर्णयपूर्वकम् ॥ १९

यः पश्येत्तां परगृहे स्थितां पाञ्चालनन्दिनीम् ।
तेनैकहायनामितं विधेयं तीर्थसेवनम् ॥ २०

एवं कृतप्रतिशस्ते पाण्डुभूपानन्दनाः ।
व्यापरैलोकसामान्यैः निन्युः कालमतन्द्रिताः ॥ २१

अथ जानपदो विनो राजगेहाङ्गणे स्थितः ।
चुक्रोश बहुधा 'धेनुः हृता मे तस्फ । रीति ॥ २२

समाश्वास्य च त विप्र प्रववश धनञ्जयः ।
आयुधानि समानेतुं त्वरया शस्त्रमन्दरम् ॥ २३

तत्रापश्यत् समासीनौ पाञ्चलीधर्मनन्दनौ ।
जानन्नपि प्रतिज्ञां सः धनुर्जग्राह सेषुधि । २४

स गत्वा तस्करानाजौ निहत्य नृपनन्दनः।
निवर्य धेरै तां तस्मै ददौ विप्राय सादरम् ॥ २५

अथ विज्ञापयामास फागुनो धर्मनन्दनम् ।
'तीर्थयात्रा मया कार्यं समयोलङना' दिति ॥ २६

अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ।
उवाच वचनं धीरः सादरं धर्मनन्दनः । २७

युधिष्ठिरः गवार्थ आक्षणार्थञ्च यद्वदेदनृतं वचः ।
यदाचरेदसत्कर्म तत्सयं तत्समञ्जसम् ॥ २८

ब्रक्षणार्थं गवार्थश्च त्वया कर्मेदृश कृतम् ।
तदसद्भावमाप्नोति कथं कथय सुव्रत ! ॥ २९