सप्तदश: सर्ग: ।
(१)शस्त्रैै: किमत्र भवतोऽनुचितै (२)रतीव
(३)बालत्वकोमलभुजातुलभारभूतैः ॥ १३॥
(४)एवं (५)त्वमेव तनयोऽसि गिरीशगौर्योः
किं यासि कालविषयं विषमैः शरैमै।
(६)संग्रामतोऽपसर जीव पितुर्जनन्याः
(७)तूर्णं प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥
विरम निवृत्तो भव । विपूर्वत्वात् रमधातोः परस्मैपदित्वम्। तत्र हेतुमाह-शस्त्रैरिति । अतीव बालस्येति शेषः । एतेनास्याक्षमत्वं व्यज्यते। भवतः तव बालत्वात् शैशवात् कोमलौ पेलवौ यौ भुजौ बाहू तयोः अतुलं बहु भारभूतै: वहनायोग्यैरित्यर्थः । अतएव अत्र मयि अनुचितैः अनुपयुतैः शस्त्रैः कृपाणादिभिः किम् अलम् । किंशब्दयोगे तृतीया। तव शस्त्राणि मयि निष्फलानीति भावः ॥ १३ ॥ एवमिति । रे शिशो। सम्बोधनपदमिदमूह्यम् । एवं पूर्वोक्तप्रकारः त्वम्। कर्ता। गिरीशस्य हरस्य गौर्याः पार्वत्यासू सम्बन्धौ तनयः पुत्रः असि भवसि एव । गिरीशगौरीतनयत्वादेताट्टशकार्ये त्वत्प्रवृत्तिरिति भावः । तथापि बालस्त्वमिति शेषः। मे मम विषमैः भीषणै: शरैः बाणैः । करणैः । किं कथं कालस्य शमनस्य विषयं गृहं यासि धावसि । मया सह योषु प्रवृत्तस्य ते मरणमवधारितमिति भावः। इदानीं कर्तव्यतामाह-संग्रामतः युद्धात् अपसर दूरं गच्छ । तथा जीव प्रणिहैि। युडापसरणे ते जीवनहनिर्नास्तीति भावः तथा तूर्णं सत्वरं यथा तथा पितुः जनकस्य मातुः जनन्याम्र
१)शकत् २) श्रासरै:,चरित्रै: ३) बालत्वकोमलभुजक्रमभारभूतैः, बालानकोमलभूजाक्रमभीरूभूतै: ४) एक: ५) एकतनय: ६) तन्नासत: ८)पूर्णम्