पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२ कुमार प्रद्युम्यमाणमवलोक्य दिगीशसैन्यं शम्भोः सुतं (३) कलहकेलिकुतूहलोत्कम् । उद्दामदोःकलितकार्मुकदण्डचण्डः प्रोवाच वाचमुपगम्य स कार्तिकयम् ॥ १२ ॥ रे (७)शम्भुतापसशिशो बत मुञ्च मुञ्च (८)दोर्दर्पमच विरम (e)चिदिवेन्द्रकार्यात् । कमें। दृशा अवलोक्य भयेन शङ्कया वेपमानं कम्पमानं सत् परमम् प्रत्ययं लोभम् उद्वेगम्। कमें। जगम प्राप्तवान् लुब्धवानित्यर्थः ॥ ११ ॥ प्रक्षुभ्येति । स तारकासुरः । कर्ता। दिगीशानाम् अष्टदिक्पालानां सम्बन्धि सैन्यम् । कर्मभूतम् । प्र प्रकर्षेण क्षुभ्यमाणं क्षोभं गच्छत् । तुभधातुदैवादिकस्तदाकृतिगण त्वात् । अवलोक्य निरौच्य उद्दमौ उत्कटौ यौ दोष बाइ तयोः कलित: स्पृहत: कार्मुकं धनुरेव दण्डः तेन चण्डः उत्कटः सन् । कलह: विग्रह एव केलिः क्रीड़ा तत्र यत्। कुतूहलं कौतुकं तत्र उत्कम् उत्सुकम्। तथा शम्भोः महा देवस्य सम्बन्धिनं सुतं तनयं कार्तिकेयम्। कर्म । उपगम्य प्राप्य वाचं निम्नोक्त' वचनं प्रोवाच उक्तवान् ॥ १२ ॥ अथ रे इत्यादिभिस्त्रिभिः शोकैर्वाचं विवृणोति रे इति । रे भोः शम्भरिव तापसः तपस्वी तस्य शियो कुमर । रे इति अवशसूचकसम्बोधनपदम् । अव मयि । विषयाधिकरणम्। दोर्दर्प भुजवीर्यजनितमकरं सु सुत्र । सर्वथैव त्यजेत्यर्थः । त्वमिति कर्तृपदसूत्रम् । तथा विदिवेन्द्रः महेन्द्रः तस्य यत् कार्यं मदीयबधकंपं तस्मात् () समरकेलि । (e) शणतान्तव शिश्च । (८) दौड़यम । (e) त्रिदिवेश ।