पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
सप्तदशः सर्गः ।


सप्तदश सर्ग । दृष्टिप्रपातवशतोऽपि पुरारिसूनो- स्ते नामपाशघनबन्धविपत्तिदुःखात् । इन्द्रादयो मुमुचिरे खयमस्य देवाः सेवां (८)व्यधुर्निकटमेव महाजिगीषोः ॥ ७ ॥ (६)उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु- रङ्गाय सारथिमवोचत चण्डबाहुः ।

निःश्वमस्य ये अनिलाः वायवः तैः आकुलानि व्याप्तानि मलिननीत्यर्थः । मुखानि आननानि येषां तादृश: । अतएव रणस्य रणात् । सम्बन्धविवक्षया पञ्चमीस्थाने षष्ठीप्रयोगः । विमुख: वैमुख्यं गताः सन्तः विपदः तककतोपद्रवस्य नेत्यर्थः। नाशः अभाव एव हेतुः कारणं तस्मात् हेतोः स्वशरः हरस्य सम्बन्धिनः सुनः कार्तिकेयस्य समषं निकटम् अगमन् गतवन्तः ॥ ६ ॥

दृष्टौति । ते इन्द्रादयः इन्द्रप्रभृतयः अष्टदिगशाः। कर्तार । पुरस्य विपुरस्य अरेः शत्रोः हरस्य सम्बन्धिनः स्नः कुमारस्य दृष्टे: नेत्रस्य यः प्रपातः पतनं तस्य वशतः मात्रतः एव प्रभवणेयथः । नागपाशेः नागपाशाख्यशरैः घनः निविडः बन्धः वन्धनमेव विपत्तिः विपद् तया यत् दुःखं क्लेशः तस्मात् सुसुचिर सुता बभूवुः । तथा महतः प्रबलस्य जिगीषोः जेतुमिच्छोः अस्य कार्तिकेयस्य निकटं समीपम्। कर्म। स्वयम् आत्मना नवपरिणेत्यर्थः । एत्य आगम्य सेवां स्तुतिमित्यर्थः । त्र्यधुः क्कतवन्तः ॥ ७ ॥

अथ डीने त्यादिना ओकद्वयेनाह- डीतेति । मा इति च ॥ अथ अनन्तरं देवानां नाग-

(८)व्यधस्च पुनरित्य।