पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
अष्टमः सर्ग. ।


तौ क्षणं शिथिलितोपगूहनौ
दम्पती (१)[१]रचितमानसोर्मयः ।
(२)[२]पद्मभेदनिपुणः सिषेविरे
गन्धमादनवनन्तमारुताः ॥ ८६ ॥
ऊरुमूलनखमार्ग
(३)[३]राजिभि
स्तत्क्षणं हृतविलोचनो हरः ।
वासस : प्रशिथिलस्य (४)[४]संयमं
कुर्वतीं प्रियतमामवारयत् ॥ ८७ ॥
स प्रजागरकषायलोचन
गाढदन्त(५)[५]पदताडिताधरम् ।

 ताविति । शिथिलितोपगूहनौ शिथिलितलिङ्गनौ । जया च पीतश्च दम्पती । जायाशब्दस्य दम्भावो निपातितः। तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्ग इत्यर्थः। पद्मभेदनिपुणः पद्मभेदपिशुन इति यावत् । विकासखचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे ॥ ८६ ॥

 ऊर्विति । तत्क्षणं मारुतवीजनसमये ऊरुमूले नखमार्गगजिभिर्नखपादपरिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचनः आकृ ष्टपुष्टिर्दूरः प्रशिधलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमाम् अवारयत् ॥ ८७ ॥

 स इति । रागवान् रागी स हरः प्रजागरेण कषायलोचनं


  1. चलित ।
  2. पद्मभेदपिशनाः ।
  3. पक्तिभिः।
  4. सञ्चयम्।
  5. परिताडिताधरम्।