पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
अष्टमः समैः ।

पार्वती (५)[१]तदुपयोगसम्भवां
विक्रियामपि सतां मनोहराम्।
अप्रतर्यविधियोगनिर्मिता
मात्रतेव सहकारतां ययौ ॥ ७८ ॥
(६) [२]तत्क्षणं (७)[३]विपरिवर्तितद्वियोः
(८)[४]नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव (९)[५]वशवर्तिनौ द्वयोः
शूलिनः सुवदना मद्य च ॥ ७९ ॥

दृदभत्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य। अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषःइत्याह ॥ ७७ ॥

 पार्वतीति ॥ पार्वती ॥ कीं। तस्य मधुनः उपयोगीन पानेन सम्भवः उत्पत्तिः यस्याः तां मद्यपानजनितामित्यर्थः । विक्रियां विकारमपि आगता रसलत्वं अप्रतक्र्येण अचिन्तनयेन विधियोगेन दैवगत्या निर्मित उत्पादितां सतां साधूनां सर्वेषामित्यर्थः। मनोहरं चित्तचमत्कारिणीं सहकारतामिव अतिसौरभत्वमिव ययौ प्राप ॥ आम्रचूतो रसालोऽसौ सहका रोऽतिसौरभः” इत्यमरः । यथा आत्रः खभावमनोहरोऽपि विधियोगवशात् सहकारत्व ’ लब्धं अतिमनोहरो भवति तथा पार्वत्या विकृतिरपि अतिमनोहारिणीं बभूवेति भावः ॥७८॥

 तदिति । सुवदना पार्वती तत्वणं तथैव विपरिवर्तितयिोर्निवर्तितलज्जयोः शयनं तल्पं नेष्यतोः प्रापयिष्यतोः इत्यं प्रहश्च रागः अनुरागः आरुष्यं च ययोः रागयोः शूलिनः


  1. तदुपभोग।
  2. तत्क्षणे ।
  3. विपरिवृत्तलब्मयोः ।
  4. वशवर्तिका ।
  5. वाञ्छतः ।