सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
कुमारसम्भवे

घूर्णमाननयनं (१) []स्खलत्कथं
स्वेदविन्दुमदकारणश्रित्तम् ।
आननेन न तु तावदौखरः
चक्षुषा चिरमुमामुखं पपौ ॥ ८० ॥
तां विलम्बितपनीयमेखला
मुद्दहञ्जघनभारदुर्वहम्।
(२) []ध्यानसंभृतविभूतिसंभृतं
प्राबिशप्रणिशिलागुहं हर: ॥ ८१ ॥

प्रियतमस्व मदस्य चेति द्वयोर्वेश वर्तत इति वशवर्तिनी अधोग बभूव ॥ ७९ ॥

 मदपारवश्यं तावदाह-

 घूर्णमानेति । ईश्वरो घूर्णमाननयनं दास्यनेत्रं स्खलत्कथं स्वलद्वचनं स्वेदविन्दुमत् स्वेदयुक्तम् अकारणस्मितम् अस्मिकहासयुक्तम् उमामुखं तावत्। आ तृष्णापगममित्यर्थः आननेन सुखेन न पपौ। न छुचुम्बेयर्थः । किन्तु चिरं चक्षुषा। पपौ । दृष्णया अद्रवीदित्यर्थः । तस्य मदपारवश्यं दृष्ट सुदं तावदन्वभूदित्यर्थ॥ ८० ॥

 संप्रति प्रियवशंवदत्वमाह----

 तामिति । हरः विलम्बितपनीयमखेलां विन्नसिहेमरसनां जघनभरेण दुर्वgां तां पार्वतीम् उद्वहन् ध्यानसंभृत सङ्कल्पमात्रमिवया विभूत्या भोगसाधनेन च संश्रुतं सम्यू मणिशिलाटवं प्राविशत् । रिरंसुरिति भावः ॥ ८९ ॥


  1. वलइचः, ललकाचम।
  2. ध्यानसंभूतविभूति
    वर, ध्यानसंनिविभूतिशोभितम्, ध्यागसंभूतविभूतिमी च रम् ।