पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३८ कुमारसम्भवे अत्र लब्धवसतिगृणान्तरं (२)कं विलासिनि (३)मधुः करिष्यति ॥७३॥ मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्ग(४)दीपकम् । इत्युदारमभिधाय शङ्कर स्तामपाययत पानमम्बिकाम् ॥ ७७ ॥ ७ सरसकेसरसुगन्धि । “गन्धस्ये -’ इत्यादिने कारः । मुखम् । रक्तमेव नयनम् । हे विलासिनि विलसनशौले । अत्र त्वन्मुखे लब्धवसतिः लब्धानुप्रवेशो मधुः मयं कं मुणान्तरं गुणविशेषं करिष्यति। न कश्चिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुन: फलं न पश्यामीत्यर्थः । `प्रर्धर्चाः पुंसि व ” इति पुंलिङ्गत्वम् । यदाहुः-‘मवारन्दस्य मद्यस्य माक्षि क्षस्य च बाधकः। अर्धर्चादिगणे पाठात् पुंनपुंसकयोर्मधु.” इति ॥ ७ ॥ मान्यभक्तिरिति ॥ अथवा सखीजनः मान्य भक्तिर्यस्य स तथोक्तः । सखीजनः स्वौकार्य इत्यर्थः । ततः अनङ्गदीपकम् इदं वक्ष्यमाणं पानं सेव्यतामिति उदारं चतुरम् अभिधाय शङ्करः ताम् अम्बिकां पीयते इति पानं मद्यम् अपाययत पायथा- मास । पिबते ऍन्तऋङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम्। पिबतर्निगरणार्थत्वेऽपि “न पादभ्म्य –ॐ इति परस्मैपदप्रतिषेधः । मनु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । "प्रप्रियादिषु” इति निषेधाङ्गलिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः -"दृढभक्ति- रित्येवमादिषु स्नपूर्वपदस्याविवक्षितत्वाक्षिकम्” इति। भीजराजस्तु-भज्यत इति कर्मसाधनस्यैव प्रियादिपाठनय (२) किम् । (३) मक। (४) दीपगम्।