पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
अष्ठमः सर्गः ।


(८)[१]एतदुच्छंसितपीतमैन्दवं
(९)[२]सोदुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा
भिद्यते कुमुदमा निबन्धनात् ॥ ७० ॥
पश्य कल्पतरुलम्बि शङ्कया
ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति (१)[३]चण्डि केवलं
व्यज्यते विपरिघुत्तमंशुकम् ॥ ७१ ॥

इतदिति । एतत् कुमुदं कैरवम् ॥ कर्तृ । उच्छेसितेन इ उच्छसितपीतम्। अतिवृष्णयोच्छस्यच्छस्य पीतर्थः । इन्दोरिदम् ऐन्दवं प्रभा चन्द्रिका सैव रसः द्रवः तं प्रक्षममिव अजस मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं तथा निबन्धनादा वृन्तात् भिद्यते विकसति । कर्मर लट् । यथा लोके कस्यचिदतिपानान्निःसहमन उच्चैः त उदरं भिद्यते तथैतदिति भावः ॥ ७० ॥

अश्येति । शक्या ज्योत्स्नया जनिता रूपसंशया अंशकं [स्रा वेति स्वरूपसन्देहो यस्य तत्तथोत कल्पतरुलम्बि हे चण्डि धत्यन्तकोपने । गौरादित्वात् ष् । केवलं ते चलति सति विपरिवृत्तं चलं सत् व्यज्यते पश्य । स्त्राच्छायत्वात्र रूपतो विविच्यते परन्तु क्रियये- ॥ ७१ ॥


  1. एतदुचसितपीतम्।
  2. वोडुम्।
  3. चछिके बुलात्, चण्डिके चमम्।