पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्टमः सर्ग ।

कैश्चिदेव (७)[१]दिवसैस्तदा तयोः
प्रेम (८)[२]रूढमितरेतराश्रयम् ॥ १५ ॥
तं यथात्मसदृशं वरं वधू
रन्वरज्यत वरस्तथैव ताम्।
सागरानपगा हि जाह्नवौ
सोऽपि तन्मुखरसैक(९)[३]निष्टतिः ॥ १६॥

वणमाबविरहदषि कातरं भीरु इतरेतराश्रयम् अन्योन्यविषयं प्रेम। प्रेमपदाभिलष्याश्रावस्था भवतीत्यर्थः। रूढम् अभूत् । क्रमेणानुरागपदाभिलष्य प्राप्तमित्यर्थः । तदेतत् सर्वं स्फुटतं भूपालेन-"अङ्ग्रपल्लवकलिकाप्रसूनफलभागियम् -’ द्व्त्यादिग। एका रतिरेव स्थायीभूता रसीभवति तस्य रावथाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यते इत्यर्छ:। स मभेदरहितं यूनोर्यावबन्धनं भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिचेदनुरागः” इति मामदिलक्षयं विस्तरभयान लिख्यत इत्याकर एव द्रष्टव्यम् ॥ १५ ॥

 तमिति । वधूः आत्मसदृशं स्वनुरूपं तं वरं वोढारं प्रति यथा अनबरच्यत अनुरक्ता अभूत् । रहुँदैवादिकात् कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढापि आत्मनः सदृक् ताम् आत्मसदृशम् ॥ “त्यदादिषु दृशेरनालोचने कञ्च” इति चकारात् क्विप्प्रत्ययः । तां बध प्रति अन्वरज्यत । बध्वामनुरक्तोऽभूदित्यर्थः । ‘गत्यर्थाकम के~~ इत्यादिना सकर्मकत्वम् । दृष्टान्तमाह-जा च गङ्गा सागरात् न अपगच्छतौति अनपगा अनपेत हि । सोऽपि सागरः तस्या: जाध्याः मुखरसेन अग्रसलिलेन वस्त्रादेन एका सुस्था निवृतिः आनन्दः यस्य स तथोक्तः । दृष्टान्तलछरः । अत्र लक्षणं कृतम् । इत्थं समामनुरागकथनाद्रसाभासत्व' गिरस्तम् । तदुक्तम् –“योषिते बडुमतिखेद्रसभासः स उच्यते ” ।


  1. दिवसैस्तथा।
  2. गूढ़म् ।
  3. इप्तिभाक्।