सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
कुमारसम्भव


शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया
(१)[]यत्तदेव गुरुदक्षिणौकृतम् ॥ १७ ॥
दष्टमुक्तमधरोष्ठमम्बिका
वेदनाविधुतहस्तपल्लवा।
शीतलेन निरवापयत् क्षणं
मौलिचन्द्रशकलेन शूलिनः॥ १८॥

कविनाप्युक्त मालविकायाम्--“'अनातुरोक्तं प्रति विप्रसिध्यता। समौपगेनापि रतिने मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयो:’ इति ॥ १६ ॥

 अथ देव्या: प्रगल्भावस्थामाश्रित्य सम्भोगमाह ----

 शिष्यतामिति में रहसि एकान्त निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । “व्यवायो ग्राम्यधर्मा मैथनं निधवनं रतम्” इत्यमरः । शश्वरस्य शिष्यतां प्रपश्रया प्रप्तया तया पार्वत्या यत् युवतिनैपुणं युवतिजनोचितं नैषुणम्। सुरतकौशलमित्यर्थः। शिक्षितम् अभ्यस्तम् । आचरितमित्यर्थः। तदेव गुरुदक्षिणेश्वतम् । यथोपदेशकरणद्दक्षिवास ममभूदित्यर्थः । अनेन कृतप्रतिकृतं मुच्यते ॥ १७ ॥

 दष्टेति ॥ अस्बिका पार्वत दष्टश्चासौ सुक्रुश्च तं दष्ट सुक्तम् । "पूर्वकाल–’ इत्यादिना समासः । अधरोढं वेदगया विधुतौ कम्पितौ हस्तपल्लवी पाणिपल्लवौ यस्याः सा तथोक्ता सती शीतलेन शूलिन: मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्यथमकरोदिति विश्रम्भोक्तिः। निवातेर्धातोन्तात् ‘प्रतिौ--’ इत्यादिना युगागमः | यत्राधरपीडनात् सुखेऽपि दुखवदुपचारात् कुङ्टिमनाम


  1. तप्तदेव गुरुदक्षिणीक्रुतम् ।