हठ योग प्रदीपिका चतुर्थोपदेशः

विकिस्रोतः तः

मूल पाठ[सम्पाद्यताम्]

Original Text

चतुर्थोपदेशः

नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने।
निरञ्जन-पदं याति नित्यं तत्र परायणः॥हयो-४.१॥
अथेदानीं प्रवक्ष्यामि समाधिक्रमम् उत्तमम्।
मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम्॥हयो-४.२॥
राज-योगः समाधिश् च उन्मनी च मनोन्मनी।
अमरत्वं लयस् तत्त्वं शून्याशून्यं परं पदम्॥हयो-४.३॥
अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम्।
जीवन्मुक्तिश् च सहजा तुर्या चेत्य् एक-वाचकाः॥हयो-४.४॥
सलिले सैन्धवं यद्वत् साम्यं भजति योगतः।
तथात्म-मनसोर् ऐक्यं समाधिर् अभिधीयते॥हयो-४.५॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते।
तदा समरसत्वं च समाधिर् अभिधीयते॥हयो-४.६॥
तत्-समं च द्वयोर् ऐक्यं जीवात्म-परमात्मनोः।
प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते॥हयो-४.७॥
राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः।
ज्ञानं मुक्तिः स्थितिः सिद्धिर् गुरु-वाक्येन लभ्यते॥हयो-४.८॥
दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम्।
दुर्लभा सहजावस्था सद्-गुरोः करुणां विना॥हयो-४.९॥
विविधैर् आसनैः कुभैर् विचित्रैः करणैर् अपि।
प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते॥हयो-४.१०॥
उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः।
योगिनः सहजावस्था स्वयम् एव प्रजायते॥हयो-४.११॥
सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे।
तदा सर्वाणि कर्माणि निर्मूलयति योगवित्॥हयो-४.१२॥
अमराय नमस् तुभ्यं सोऽपि कालस् त्वया जितः।
पतितं वदने यस्य जगद् एतच् चराचरम्॥हयो-४.१३॥
चित्ते समत्वम् आपन्ने वायौ व्रजति मध्यमे।
तदामरोली वज्रोली सहजोली प्रजायते॥हयो-४.१४॥

ज्ञानं कुतो मनसि सम्भवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत्।
प्राणो मनो द्वयम् इदं विलयं नयेद् यो मोक्षं स गच्छति नरो न कथंचिद् अन्यः॥हयो-४.१५॥

ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम्।
स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत्॥हयो-४.१६॥
सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम्।
भोक्त्री सुषुम्ना कालस्य गुह्यम् एतद् उदाहृतम्॥हयो-४.१७॥
द्वा-सप्तति-सहस्राणि नाडी-द्वाराणि पञ्जरे।
सुषुम्णा शाम्भवी शक्तिः शेषास् त्व् एव निरर्थकाः॥हयो-४.१८॥
वायुः परिचितो यस्माद् अग्निना सह कुण्डलीम्।
बोधयित्वा सुषुम्णायां प्रविशेद् अनिरोधतः॥हयो-४.१९॥
सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्य् एव मनोन्मनी।
अन्यथा त्व् इतराभ्यासाः प्रयासायैव योगिनाम्॥हयो-४.२०॥
पवनो बध्यते येन मनस् तेनैव बध्यते।
मनश् च बध्यते येन पवनस् तेन बध्यते॥हयो-४.२१॥
हेतु-द्वयं तु चित्तस्य वासना च समीरणः।
तयोर् विनष्ट एकस्मिन् तौ द्वाव् अपि विनश्यतः॥हयो-४.२२॥
मनो यत्र विलीयेत पवनस् तत्र लीयते।
पवनो लीयते यत्र मनस् तत्र विलीयते॥हयो-४.२३॥

दुग्धाम्बुवत् संमिलिताव् उभौ तौ तुल्य-क्रियौ मानस-मारुतौ हि।
यतो मरुत् तत्र मनः-प्रवृत्तिर् यतो मनस् तत्र मरुत्-प्रवृत्तिः॥हयो-४.२४॥

तत्रैक-नाशाद् अपरस्य नाश एक-प्रवृत्तेर् अपर-प्रवृत्तिः।
अध्वस् तयोश् चेन्द्रिय-वर्ग-वृत्तिः प्रध्वस् तयोर् मोक्ष-पदस्य सिद्धिः॥हयो-४.२५॥

रसस्य मनसश् चैव चञ्चलत्वं स्वभावतः।
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले॥हयो-४.२६॥
मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम्।
बद्धः खेचरतां धत्ते रसो वायुश् च पार्वति॥हयो-४.२७॥
मनः स्थैर्यं स्थिरो वायुस् ततो बिन्दुः स्थिरो भवेत्।
बिन्दु-स्थैर्यात् सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते॥हयो-४.२८॥
इन्द्रियाणां मनो नाथो मनोनाथस् तु मारुतः।
मारुतस्य लयो नाथः स लयो नादम् आश्रितः॥हयो-४.२९॥
सोऽयम् एवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे।
मनः-प्राण-लये कश्चिद् आनन्दः सम्प्रवर्तते॥हयो-४.३०॥
प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः।
निश्चेष्टो निर्विकारश् च लयो जयति योगिनाम्॥हयो-४.३१॥
उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः।
स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः॥हयो-४.३२॥
यत्र दृष्टिर् लयस् तत्र भूतेन्द्रिय-सनातनी।
सा शक्तिर् जीव-भूतानां द्वे अलक्ष्ये लयं गते॥हयो-४.३३॥
लयो लय इति प्राहुः कीदृशं लय-लक्षणम्।
अपुनर्-वासनोत्थानाल् लयो विषय-विस्मृतिः॥हयो-४.३४॥
वेद-शास्त्र-पुराणानि सामान्य-गणिका इव।
एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूर् इव॥हयो-४.३५॥

अथ शाम्भवी- अन्तर् लक्ष्यं बहिर् दृष्टिर् निमेषोन्मेष-वर्जिता।
एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता॥हयो-४.३६॥

अन्तर् लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते दृष्ट्या निश्चल-तारया बहिर् अधः पश्यन्न् अपश्यन्न् अपि।
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद् गुरोः शून्याशून्य-विलक्षणं स्फुरति तत् तत्त्वं पदं शाम्भवम्॥हयो-४.३७॥

श्री-शाम्भव्याश् च खेचर्या अवस्था-धाम-भेदतः।
भवेच् चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि॥हयो-४.३८॥
तारे ज्योतिषि संयोज्य किंचिद् उन्नमयेद् भ्रुवौ।
पूर्व-योगं मनो युञ्जन्न् उन्मनी-कारकः क्षणात्॥हयो-४.३९॥
केचिद् आगम-जालेन केचिन् निगम-सङ्कुलैः।
केचित् तर्केण मुह्यन्ति नैव जानन्ति तारकम्॥हयो-४.४०॥

अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश् चन्द्रार्काव् अपि लीनताम् उपनयन् निस्पन्द-भावेन यः।
ज्योती-रूपम् अशेष-बीजम् अखिलं देदीप्यमानं परं तत्त्वं तत्-पदम् एति वस्तु परमं वाच्यं किम् अत्राधिकम्॥हयो-४.४१॥

दिवा न पूजयेल् लिङ्गं रात्रौ चैव न पूजयेत्।
सर्वदा पूजयेल् लिङ्गं दिवारात्रि-निरोधतः॥हयो-४.४२॥

अथ खेचरी- सव्य-दक्षिण-नाडी-स्थो मध्ये चरति मारुतः।
तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः॥हयो-४.४३॥
इडा-पिङ्गलयोर् मध्ये शून्यं चैवानिलं ग्रसेत्।
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः॥हयो-४.४४॥
सूर्च्याचन्द्रमसोर् मध्ये निरालम्बान्तरे पुनः।
संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी॥हयो-४.४५॥
सोमाद् यत्रोदिता धारा साक्षात् सा शिव-वल्लभा।
पूरयेद् अतुलां दिव्यां सुषुम्णां पश्चिमे मुखे॥हयो-४.४६॥
पुरस्ताच् चैव पूर्येत निश्चिता खेचरी भवेत्।
अभ्यस्ता खेचरी मुद्राप्य् उन्मनी सम्प्रजायते॥हयो-४.४७॥
भ्रुवोर् मध्ये शिव-स्थानं मनस् तत्र विलीयते।
ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते॥हयो-४.४८॥
अभ्यसेत् खेचरीं तावद् यावत् स्याद् योग-निद्रितः।
सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन॥हयो-४.४९॥
निरालम्बं मनः कृत्वा न किंचिद् अपि चिन्तयेत्।
स-बाह्याभ्यन्तरं व्योम्नि घटवत् तिष्ठति ध्रुवम्॥हयो-४.५०॥
बाह्य-वायुर् यथा लीनस् तथा मध्यो न संशयः।
स्व-स्थाने स्थिरताम् एति पवनो मनसा सह॥हयो-४.५१॥
एवम् अभ्यस्यतस् तस्य वायु-मार्गे दिवानिशम्।
अभ्यासाज् जीर्यते वायुर् मनस् तत्रैव लीयते॥हयो-४.५२॥
अमृतैः प्लावयेद् देहम् आपाद-तल-मस्तकम्।
सिद्ध्यत्य् एव महा-कायो महा-बल-पराक्रमः॥हयो-४.५३॥
शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम्।
मनसा मन आलोक्य धारयेत् परमं पदम्॥हयो-४.५४॥
ख-मध्ये कुरु चात्मानम् आत्म-मध्ये च खं कुरु।
सर्वं च ख-मयं कृत्वा न किंचिद् अपि चिन्तयेत्॥हयो-४.५५॥
अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे।
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे॥हयो-४.५६॥
बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम्।
सर्व-चिन्तां परित्यज्य न किंचिद् अपि चिन्तयेत्॥हयो-४.५७॥

सङ्कल्प-मात्र-कलनैव जगत् समग्रं सङ्कल्प-मात्र-कलनैव मनो-विलासः।
सङ्कल्प-मात्र-मतिम् उत्सृज निर्विकल्पम् आश्रित्य निश्चयम् अवाप्नुहि राम शान्तिम्॥हयो-४.५८॥

कर्पूरम् अनले यद्वत् सैन्धवं सलिले यथा।
तथा सन्धीयमानं च मनस् तत्त्वे विलीयते॥हयो-४.५९॥
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते।
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः॥हयो-४.६०॥
मनो-दृश्यम् इदं सर्वं यत् किंचित् स-चराचरम्।
मनसो ह्य् उन्मनी-भावाद् द्वैतं नैवोलभ्यते॥हयो-४.६१॥
ज्ञेय-वस्तु-परित्यागाद् विलयं याति मानसम्।
मनसो विलये जाते कैवल्यम् अवशिष्यते॥हयो-४.६२॥
एवं नाना-विधोपायाः सम्यक् स्वानुभवान्विताः।
समाधि-मार्गाः कथिताः पूर्वाचार्यैर् महात्मभिः॥हयो-४.६३॥
सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने।
मनोन्मन्यै नमस् तुभ्यं महा-शक्त्यै चिद्-आत्मने॥हयो-४.६४॥
अशक्य-तत्त्व-बोधानां मूढानाम् अपि संमतम्।
प्रोक्तं गोरक्ष-नाथेन नादोपासनम् उच्यते॥हयो-४.६५॥

श्री-आदिनाथेन स-पाद-कोटि- लय-प्रकाराः कथिता जयन्ति।
नादानुसन्धानकम् एकम् एव मन्यामहे मुख्यतमं लयानाम्॥हयो-४.६६॥

मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम्।
शृणुयाद् दक्षिणे कर्णे नादम् अन्तास्थम् एकधीः॥हयो-४.६७॥

श्रवण-पुट-नयन-युगल- घ्राण-मुखानां निरोधनं कार्यम्।
शुद्ध-सुषुम्णा-सरणौ स्फुटम् अमलः श्रूयते नादः॥हयो-४.६८॥

आरम्भश् च घटश् चैव तथा परिचयोऽपि च।
निष्पत्तिः सर्व-योगेषु स्याद् अवस्था-चतुष्टयम्॥हयो-४.६९॥

अथ आरम्भावस्था- ब्रह्म-ग्रन्थेर् भवेद् भेदो ह्य् आनन्दः शून्य-सम्भवः।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः॥हयो-४.७०॥
दिव्य-देहश् च तेजस्वी दिव्य-गन्धस् त्वरोगवान्।
सम्पूर्ण-हृदयः शून्य आरम्भे योगवान् भवेत्॥हयो-४.७१॥

अथ घटावस्था- द्वितीयायां घटीकृत्य वायुर् भवति मध्यगः।
दृढासनो भवेद् योगी ज्ञानी देव-समस् तदा॥हयो-४.७२॥
विष्णु-ग्रन्थेस् ततो भेदात् परमानन्द-सूचकः।
अतिशून्ये विमर्दश् च भेरी-शब्दस् तदा भवेत्॥हयो-४.७३॥

अथ परिचयावस्था- तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः।
महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम्॥हयो-४.७४॥
चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः।
दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः॥हयो-४.७५॥
अथ निष्पत्त्य्-अवस्था- रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः।
निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत्॥हयो-४.७६॥
एकीभूतं तदा चित्तं राज-योगाभिधानकम्।
सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत्॥हयो-४.७७॥
अस्तु वा मास्तु वा मुक्तिर् अत्रैवाखण्डितं सुखम्।
लयोद्भवम् इदं सौख्यं राज-योगाद् अवाप्यते॥हयो-४.७८॥
राज-योगम् अजानन्तः केवलं हठ-कर्मिणः।
एतान् अभ्यासिनो मन्ये प्रयास-फल-वर्जितान्॥हयो-४.७९॥
उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम्।
राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम्।
सद्यः प्रत्यय-सन्धायी जायते नादजो लयः॥हयो-४.८०॥

नादानुसन्धान-समाधि-भाजां योगीश्वराणां हृदि वर्धमानम्।
आनन्दम् एकं वचसाम् अगम्यं जानाति तं श्री-गुरुनाथ एकः॥हयो-४.८१॥

कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः।
तत्र चित्तं स्थिरीकुर्याद् यावत् स्थिर-पदं व्रजेत्॥हयो-४.८२॥
अभ्यस्यमानो नादोऽयं बाह्यम् आवृणुते ध्वनिम्।
पक्षाद् विक्षेपम् अखिलं जित्वा योगी सुखी भवेत्॥हयो-४.८३॥
श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान्।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः॥हयो-४.८४॥
आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः।
मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास् तथा॥हयो-४.८५॥
अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः।
इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः॥हयो-४.८६॥
महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ।
तत्र सूक्ष्मात् सूक्ष्मतरं नादम् एव परामृशेत्॥हयो-४.८७॥
घनम् उत्सृज्य वा सूक्ष्मे सूक्ष्मम् उत्सृज्य वा घने।
रममाणम् अपि क्षिप्तं मनो नान्यत्र चालयेत्॥हयो-४.८८॥
यत्र कुत्रापि वा नादे लगति प्रथमं मनः।
तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते॥हयो-४.८९॥
मकरन्दं पिबन् भृङ्गी गन्धं नापेक्षते यथा।
नादासक्तं तथा चित्तं विषयान् नहि काङ्क्षते॥हयो-४.९०॥
मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः।
समर्थोऽयं नियमने निनाद-निशिताङ्कुशः॥हयो-४.९१॥
बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम्।
प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा॥हयो-४.९२॥
सर्व-चिन्तां परित्यज्य सावधानेन चेतसा।
नाद एवानुसन्धेयो योग-साम्राज्यम् इच्छता॥हयो-४.९३॥
नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते।
अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च॥हयो-४.९४॥
अन्तरङ्गस्य यमिनो वाजिनः परिघायते।
नादोपास्ति-रतो नित्यम् अवधार्या हि योगिना॥हयो-४.९५॥
बद्धं विमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात्।
मनः-पारदम् आप्नोति निरालम्बाख्य-खेऽटनम्॥हयो-४.९६॥
नाद-श्रवणतः क्षिप्रम् अन्तरङ्ग-भुजङ्गमम्।
विस्मृतय सर्वम् एकाग्रः कुत्रचिन् नहि धावति॥हयो-४.९७॥
काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति।
नादे प्रवर्तितं चित्तं नादेन सह लीयते॥हयो-४.९८॥
घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य।
प्रहरणम् अपि सुकरं स्याच् छर-सन्धान-प्रवीणश् चेत्॥हयो-४.९९॥
अनाहतस्य शब्दस्य ध्वनिर् य उपलभ्यते।
ध्वनेर् अन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः।
मनस् तत्र लयं याति तद् विष्णोः परमं पदम्॥हयो-४.१००॥
तावद् आकाश-सङ्कल्पो यावच् छब्दः प्रवर्तते।
निःशब्दं तत्-परं ब्रह्म परमातेति गीयते॥हयो-४.१०१॥
यत् किंचिन् नाद-रूपेण श्रूयते शक्तिर् एव सा।
यस् तत्त्वान्तो निराकारः स एव परमेश्वरः॥हयो-४.१०२॥

इति नादानुसन्धानम्

सर्वे हठ-लयोपाया राजयोगस्य सिद्धये।
राज-योग-समारूढः पुरुषः काल-वञ्चकः॥हयो-४.१०३॥
तत्त्वं बीजं हठः क्षेत्रम् औदासीन्यं जलं त्रिभिः।
उन्मनी कल्प-लतिका सद्य एव प्रवर्तते॥हयो-४.१०४॥
सदा नादानुसन्धानात् क्षीयन्ते पाप-संचयाः।
निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ॥हयो-४.१०५॥
शङ्ख-दुन्धुभि-नादं च न शृणोति कदाचन।
काष्ठवज् जायते देह उन्मन्यावस्थया ध्रुवम्॥हयो-४.१०६॥
सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः।
मृतवत् तिष्ठते योगी स मुक्तो नात्र संशयः॥हयो-४.१०७॥
खाद्यते न च कालेन बाध्यते न च कर्मणा।
साध्यते न स केनापि योगी युक्तः समाधिना॥हयो-४.१०८॥
न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम्।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना॥हयो-४.१०९॥
चित्तं न सुप्तं नोजाग्रत् स्मृति-विस्मृति-वर्जितम्।
न चास्तम् एति नोदेति यस्यासौ मुक्त एव सः॥हयो-४.११०॥
न विजानाति शीतोष्णं न दुःखं न सुखं तथा।
न मानं नोपमानं च योगी युक्तः समाधिना॥हयो-४.१११॥
स्वस्थो जाग्रद् अवस्थायां सुप्तवद् योऽवतिष्ठते।
निःश्वासोच्छ्वास-हीनश् च निश्चितं मुक्त एव सः॥हयो-४.११२॥
अवध्यः सर्व-शस्त्राणाम् अशक्यः सर्व-देहिनाम्।
अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना॥हयो-४.११३॥

यावन् नैव प्रविशति चरन् मारुतो मध्य-मार्गे यावद् विदुर् न भवति दृढः प्राण-वात-प्रबन्धात्।
यावद् ध्याने सहज-सदृशं जायते नैव तत्त्वं तावज् ज्ञानं वदति तद् इदं दम्भ-मिथ्या-प्रलापः॥हयो-४.११४॥

इति हठ-योग-प्रदीपिकायां समाधि-लक्षणं नाम चतुर्थोपदेशः

हिन्दी अनुवाद[सम्पाद्यताम्]

Hindi Translation

पंकज चन्द गुप्ता के शब्दों में।

On Samadhi[सम्पाद्यताम्]

  1. नाडा, बिंदू और काली के रूप में प्रकट होने वाले, सभी को खुशी देने वाले गुरु को नमस्कार। जो अपने प्रति समर्पित होता है, वह सर्वोच्च आनंद प्राप्त करता है।
  2. अब मैं समाधि प्राप्त करने की एक नियमित विधि का वर्णन करूंगा, जो मृत्यु को नष्ट करती है, जो सुख प्राप्त करने का साधन है, और ब्रह्मानंद को प्रदान करती है।
  3. राजयोग, समाधि, उन्मानी, मनोनमणि, अमरत्व, लाया, तत्वा, सुन्या, असुन्या, परम पाद, अमानस्का, अद्वैतमा, निरालाम्बा, निरंजना, जीवन मुक्ति, सहज, तुर्या, सभी पर्यायवाची हैं।
  4. राजयोग, समाधि, उन्मानी, मनोनमणि, अमरत्व, लाया, तत्वा, सुन्या, असुन्या, परम पाद, अमानस्का, अद्वैतमा, निरालाम्बा, निरंजना, जीवन मुक्ति, सहज, तुर्या, सभी पर्यायवाची हैं।
  5. जैसे पानी में घुलने वाला नमक उसके साथ एक हो जाता है, इसलिए जब आत्मा और मन एक हो जाते हैं, तो इसे समाधि कहा जाता है।
  6. जब प्राण दुबला (शक्तिहीन) हो जाता है और मन लीन हो जाता है, तब उनका समान होना समाधि कहलाता है।
  7. स्वयं और परमात्मा की यह समानता और एकता, जब सभी संकल्प समाप्त हो जाते हैं, समाधि कहलाती है।
  8. या, राजयोग की सच्ची महानता को कौन जान सकता है। ज्ञान, मुक्ति, स्थिति और सिद्धियाँ केवल गुरु के निर्देशों से सीखी जा सकती हैं।
  9. सांसारिक सुखों के प्रति उदासीनता प्राप्त करना बहुत मुश्किल है, और वास्तविकताओं का ज्ञान प्राप्त करना भी उतना ही कठिन है। सच्चे गुरु की कृपा के बिना, समाधि की स्थिति प्राप्त करना बहुत मुश्किल है।
  10. विभिन्न मुद्राओं और विभिन्न कुंभकों के माध्यम से, जब महान शक्ति (कुंडली) जागती है, तब प्राण सूर्य (समाधि) में लीन हो जाता है।
  11. जिस योगी या योगिनी की शक्ति जागृत हो गई है, और जिसने सभी कार्यों को त्याग दिया है, वह बिना किसी प्रयास के समाधि की स्थिति में पहुंच जाती है।
  12. जब प्राण सुसुम्ना में प्रवाहित होता है, और मन सूर्य में प्रवेश कर जाता है, तब योगी या योगिनी कर्मों के प्रभाव से मुक्त हो जाते हैं।
  13. हे अमर (यानी, योगी या योगिनी जो समाधि की स्थिति में पहुंच गई है), मैं आपको सलाम करता हूं! यहाँ तक कि स्वयं मृत्यु भी, जिसके मुँह में यह पूरी गतिशील और अचल दुनिया गिर गई है, को भी तुम्हारे द्वारा जीत लिया गया है।
  14. अमरोली, वजरोली और सहोली तब पूरी होती हैं जब मन शांत हो जाता है और प्राण मध्य चैनल में प्रवेश कर जाता है।
  15. जब तक प्राण जीवित है और मन मर नहीं गया है, तब तक ज्ञान प्राप्त करना कैसे संभव हो सकता है? किसी और को मोक्ष नहीं मिल सकता सिवाय उसके जो अपने प्राण और मन को अव्यक्त कर सकता है।
  16. हमेशा एक अच्छे इलाके में रहकर सुसुम्ना के रहस्य को जानने के बाद, जिसका एक मध्य मार्ग है, और उसमें वायु को स्थानांतरित करने के लिए, (योगी या योगिनी) को ब्रह्म रंध्र में वायु को नियंत्रित करना चाहिए।
  17. समय, रात और दिन के रूप में, सूर्य और चंद्रमा द्वारा बनाया जाता है। यह एक बड़ा रहस्य है कि सुषुम्ना इस समय (मृत्यु) को भी निगल जाती है।
  18. इस शरीर में 72,000 नाड़ियों के द्वार हैं; इनमें से, सुसुम्ना, जिसमें सांभवी शक्ति है, एकमात्र महत्वपूर्ण है, बाकी सब बेकार हैं।
  19. वायु को बिना किसी रोकटोक के सुसुम्ना में प्रवेश कराना चाहिए, जिसने सांस लेने का नियंत्रण किया है और (गैस्ट्रिक) आग से कुंडली को जागृत किया है।
  20. सुसुम्ना में प्रवाहित होने वाला प्राण मनोनमणि की स्थिति को सामने लाता है; अन्य अभ्यास योगी या योगिनी के लिए बिल्कुल बेकार हैं।
  21. जिसके द्वारा श्वास को नियंत्रित किया गया है, उसके द्वारा मन की गतिविधियों को भी नियंत्रित किया गया है; और, इसके विपरीत, जिसके द्वारा मन की गतिविधियों को नियंत्रित किया गया है, उसके द्वारा श्वास को भी नियंत्रित किया गया है।
  22. मन की गतिविधियों के दो कारण हैं; (1) वासना (इच्छाएं) और (2) श्वसन (प्राण)। इनमें से, एक का विनाश दोनों का विनाश है।
  23. जब मन लीन हो जाता है तब श्वास कम हो जाती है और प्राण संयमित होने पर मन लीन हो जाता है।
  24. दूध और पानी की तरह मन और सांस दोनों एक साथ मिल जाते हैं; और दोनों ही अपनी गतिविधियों में समान हैं। मन अपनी गतिविधियों को शुरू करता है जहां सांस होती है, और प्राण अपनी गतिविधियों को शुरू करता है जहां मन होता है।
  25. इसलिए, एक के निलंबन से, दूसरे का निलंबन आता है, और एक के संचालन से दूसरे के संचालन शुरू हो जाते हैं। जब वे उपस्थित होते हैं, तो इद्रिय (इंद्रियां) अपने उचित कार्यों में लगे रहते हैं, और जब वे अव्यक्त हो जाते हैं तब मोक्ष होता है।
  26. स्वभाव से, बुध और मन अस्थिर हैं: दुनिया में ऐसा कुछ भी नहीं है जिसे तब पूरा नहीं किया जा सकता जब इन्हें स्थिर बनाया जाए।
  27. हे पार्वती! बुध और श्वास, जब स्थिर हो जाते हैं, तो रोगों को नष्ट कर देते हैं और मृत स्वयं (उनके माध्यम से) जीवित हो जाते हैं। उनके (उचित) नियंत्रण से, हवा में गति प्राप्त होती है।
  28. जब मन स्थिर और शांत हो जाता है तो सांस शांत हो जाती है; और इसलिए बिंदू का संरक्षण होता है। इसे बनाए रखने से शरीर में सत्वा स्थापित हो जाता है।
  29. मन इंद्रियों का स्वामी है, और सांस मन का स्वामी है। अपनी बारी में सांस लया (अवशोषण) के अधीन होती है, और वह लया नाडा पर निर्भर करती है।
  30. इसी लय को मोक्ष कहा जाता है, या, एक संप्रदायवादी होने के नाते, आप इसे मोक्ष नहीं कह सकते हैं; लेकिन जब मन लीन हो जाता है, तो एक प्रकार का परमानंद अनुभव होता है।
  31. श्वसन के रुक जाने और इन्द्रियों के सुखों के विनाश से, जब मन सभी गतिविधियों से रहित हो जाता है और परिवर्तनशील रहता है, तब योगी या योगिनी लय अवस्था में पहुंच जाती है।
  32. जब विचार और गतिविधियाँ नष्ट हो जाती हैं, तब लय अवस्था उत्पन्न होती है, जिसका वर्णन करने के लिए वाणी की शक्ति से परे है, जिसे केवल आत्म-अनुभव से जाना जाता है।
  33. वे अक्सर लाया की बात करते हैं; लेकिन इसका मतलब क्या है? जब वासना (इच्छाएं) फिर से अस्तित्व में नहीं आती हैं, तब लया बस इंद्रियों की वस्तुओं को भूल जाती है।

The Sambhavi Mudra[सम्पाद्यताम्]

  1. वेद और शास्त्र आम सार्वजनिक महिलाओं की तरह हैं। सांभवी मुद्रा वह है, जो एक सम्मानित महिला की तरह एकांत में रहती है।
  2. आंखों को झपकाए बिना, बाहरी वस्तुओं की ओर निर्देशित करते हुए, अंदर की ओर ब्राह्मण को निशाना बनाना, वेदों और शास्त्रों में छिपी सांभवी मुद्रा कहलाता है।
  3. जब योगी या योगिनी मन और प्राण को लीन रखते हुए, और दृष्टि को स्थिर रखते हुए, ब्राह्मण के प्रति आंतरिक रूप से चौकस रहते हैं, जैसे कि सब कुछ देख रहे हैं, जबकि वास्तव में बाहर, नीचे या ऊपर कुछ भी नहीं देख रहे हैं, तो वास्तव में इसे सांभवी मुद्रा कहा जाता है, जिसे गुरु की कृपा से सीखा जाता है। जो कुछ भी, अद्भुत, सुन्या या असुन्या माना जाता है, उसे उस महान संभू (शिव) की अभिव्यक्ति माना जाना चाहिए।
  4. दोनों अवस्थाएं, संभावी और खेचरी, अपनी सीट (क्रमशः हृदय और भौंहों के बीच का स्थान) के कारण भिन्न हैं; लेकिन दोनों ही खुशी का कारण बनते हैं, क्योंकि मन चिता-सुख-रुप-आत्मा में लीन हो जाता है, जो शून्य है।

The Unmani[सम्पाद्यताम्]

  1. प्रकाश (नाक की नोक पर देखी गई) पर नज़र डालें और भौंहों को थोड़ा ऊपर उठाएं, मन पहले की तरह चिंतन करे (सांभवी मुद्राओं में, यानी अंदर की ओर ब्रह्मा के बारे में सोचना, लेकिन जाहिर तौर पर बाहर देखना)। इससे एक ही बार में उन्मानी अवस्था का निर्माण होगा।

The Taraka[सम्पाद्यताम्]

  1. कुछ वेदों के प्रति समर्पित हैं, कुछ निगम को, जबकि अन्य तर्क में लिप्त हैं, लेकिन कोई भी इस मुद्रा का मूल्य नहीं जानता है, जो अस्तित्व के सागर को पार करने में सक्षम बनाता है।
  2. स्थिर शांत मन और आधी बंद आँखों के साथ, नाक की नोक पर टिकी हुई, इडा और पिंगला को बिना पलक झपकाए रोक देता है, वह या वह जो प्रकाश को देख सकता है, जो कि सब कुछ है, बीज, संपूर्ण शानदार, महान तत्वमा, उनके पास पहुँचता है, जो महान वस्तु है। अधिक बात करने से क्या फायदा?
  3. व्यक्ति को दिन में (यानी, जब सूर्य या पिंगला काम कर रहा हो) या रात में (जब इडा काम कर रहा हो) लिंग (यानी, आत्मा) का ध्यान नहीं करना चाहिए, लेकिन दोनों को रोकने के बाद हमेशा चिंतन करना चाहिए।

The Khechari[सम्पाद्यताम्]

  1. जब हवा दाएं और बाएं नथुने में चलना बंद कर देती है, और मध्य मार्ग में बहना शुरू हो जाती है, तब खेचरी मुद्रा वहां पूरी की जा सकती है। इसमें कोई संदेह नहीं है।
  2. यदि प्राण को इडा और पिंगला के बीच स्थित सुन्या (सुसुम्ना) में खींचा जा सकता है और वहां गतिहीन बनाया जा सकता है, तो खेचरी मुद्रा वास्तव में वहां स्थिर हो सकती है।
  3. उस मुद्रा को खेचरी कहा जाता है जो सूर्य और चंद्र (इडा और पिंगला) के बीच के सहारे रहित स्थान में की जाती है और जिसे व्योमा चक्र कहा जाता है।
  4. खेचरी जिसके कारण चंद्र (सोम) से धारा प्रवाहित होती है, वह शिव के प्रिय हैं। अतुलनीय दिव्य सुसुम्ना को जीभ पीछे खींचकर बंद कर देना चाहिए।
  5. इसे सामने से भी बंद किया जा सकता है (प्राण की गतिविधियों को रोककर), और फिर निश्चित रूप से यह खेचरी बन जाती है। अभ्यास से, यह खेचरी उन्मानी की ओर ले जाती है।
  6. शिव का आसन भौंहों के बीच होता है, और मन वहीं लीन हो जाता है। यह स्थिति (जिसमें मन इस प्रकार लीन हो जाता है) को तुर्या के नाम से जाना जाता है, और मृत्यु की वहाँ कोई पहुँच नहीं है।
  7. खेचरी का अभ्यास तब तक किया जाना चाहिए जब तक कि योग-निद्र (समाधि) न हो जाए। जिसने योग-निद्र को प्रेरित किया है, वह मौत का शिकार नहीं हो सकता।
  8. मन को सभी विचारों और कुछ भी न सोचने से मुक्त करते हुए, व्यक्ति को अंतरिक्ष में एक बर्तन की तरह मजबूती से बैठना चाहिए (चारों ओर और ईथर से भरा हुआ)।
  9. जैसे हवा शरीर के अंदर और बाहर, स्थिर रहती है, वैसे ही मन के साथ सांस अपने स्थान पर स्थिर हो जाती है (अर्थात, ब्रह्मा रंध्र में)।
  10. इस प्रकार, रात और दिन अभ्यास करने से, श्वास नियंत्रण में आ जाती है, और जैसे-जैसे अभ्यास बढ़ता है, मन शांत और स्थिर हो जाता है।
  11. शरीर को अमृता (चंद्रमा से निकलते हुए) से सिर से पांव तक रगड़ने से महाकाय यानी बड़ी ताकत और ऊर्जा मिलती है।

End of the Khechari[सम्पाद्यताम्]

  1. मन को कुंडलिनी में रखकर, बाद में मन को मन में लाकर, बुद्धि (बुद्धि) को मन से देखकर (रिफ्लेक्सिवली), परम पद (ब्रह्मा) प्राप्त करना चाहिए।
  2. आत्मा को ख (ब्रह्मा) के अंदर रखें और ब्रह्मा को अपनी आत्मा के अंदर रखें। ख (ब्रह्मा) के साथ सब कुछ व्याप्त करने के बाद, किसी और चीज के बारे में न सोचें।
  3. व्यक्ति को खाली और शून्य हो जाना चाहिए, और अंतरिक्ष में एक बर्तन की तरह शून्य हो जाना चाहिए। समुद्र में एक जार की तरह, अंदर और बाहर भरा हुआ।
  4. उसे न तो अपने अंदर का होना चाहिए और न ही अपनी बाहरी दुनिया का; और, सभी विचारों को छोड़कर, उसे कुछ भी नहीं सोचना चाहिए।
  5. यह पूरी दुनिया और मन की सभी योजनाएँ केवल विचारों की रचना हैं। इन विचारों को त्यागकर और सभी अनुमानों को छोड़कर, हे राम! शांति पाओ।
  6. जैसे कपूर आग में और सेंधा नमक पानी में गायब हो जाता है, वैसे ही आत्मा के साथ एकजुट होने वाला मन अपनी पहचान खो देता है।
  7. जब ज्ञानी और ज्ञान दोनों समान रूप से नष्ट हो जाते हैं, तब कोई दूसरा रास्ता नहीं होता (यानी, द्वैत नष्ट हो जाता है)।
  8. यह सारी चल और अचल दुनिया मन है। जब मन उन्मानी अवस्था को प्राप्त कर लेता है, तब कोई द्वैत नहीं होता (मन की कार्यप्रणाली के अभाव से)।
  9. ज्ञानी को हटाकर मन गायब हो जाता है, और, इसके गायब होने पर, आत्मा केवल पीछे रह जाती है।
  10. पहले के उच्च आत्मा वाले आचार्यों (शिक्षकों) ने स्वयं समाधि की विभिन्न विधियों का अनुभव प्राप्त किया, और फिर उन्होंने दूसरों को उनका उपदेश दिया।
  11. हे सुषुम्ना, तेरी ओ कुंडलिनी, चंद्र से जन्मी तेरी ओ सुधा, तेरी ओ मनोनमणि को सलाम! हे महान शक्ति, ऊर्जा और बुद्धिमान आत्मा को।
  12. अब मैं उन लोगों के लाभ के लिए गोरक्ष नाथ द्वारा प्रतिपादित अनाहत नाडा की प्रथा का वर्णन करूंगा, जो ज्ञान के सिद्धांतों को समझने में असमर्थ हैं - एक ऐसी विधि, जिसे अज्ञानी भी पसंद करते हैं।
  13. आदिनाथ ने ट्रान्स के 1 1/4 करोड़ तरीके प्रस्तावित किए, और वे सभी मौजूद हैं। इनमें से, अनाहत नाडा की सुनवाई ही एकमात्र है, प्रमुख, मेरी राय में।
  14. मुक्ति आसन के साथ बैठकर और सांभवी मुद्रा के साथ, योगी या योगिनी को एकत्रित मन के साथ अपने दाहिने कान के अंदर की आवाज सुननी चाहिए।
  15. कान, आंख, नाक और मुंह बंद होने चाहिए और फिर सुसुम्ना के अंश में स्पष्ट ध्वनि सुनाई देती है, जो उसकी सभी अशुद्धियों से मुक्त हो गई है।
  16. सभी योगों में, चार अवस्थाएं होती हैं: (1) आरम्भ या प्रारंभिक, (2) घट, या जार की अवस्था, (3) परिचय (ज्ञात), (4) निस्पत्ति (घाघ)।

Arambha Avastha[सम्पाद्यताम्]

  1. जब प्राणायाम द्वारा ब्रह्मा ग्रंथी (हृदय में) को छेद दिया जाता है, तब हृदय के शून्य में एक प्रकार की खुशी का अनुभव होता है, और अनाहत ध्वनियां, जैसे आभूषणों की विभिन्न झनझनाहट की आवाज़ें, शरीर में सुनाई देती हैं।
  2. आरम्भ में, योगी या योगिनी का शरीर दिव्य, चमकदार, स्वस्थ हो जाता है और एक दिव्य गंध का उत्सर्जन करता है। उसका पूरा हृदय शून्य हो जाता है।

The Ghata Avastha[सम्पाद्यताम्]

  1. दूसरे चरण में, हवा एक में मिल जाती है और मध्य चैनल में घूमने लगती है। योगी या योगिनी की मुद्रा दृढ़ हो जाती है, और वह भगवान की तरह बुद्धिमान हो जाता है।
  2. इस माध्यम से विष्णु गाँठ (गले में) छेदी जाती है, जिसे अनुभव किए गए उच्चतम आनंद से इंगित किया जाता है, और फिर गले में वैक्यूम में भेरी ध्वनि (जैसे केटल ड्रम की धड़कन) उत्पन्न होती है।

The Parichaya Avastha[सम्पाद्यताम्]

  1. तीसरे चरण में, भौंहों के बीच सूर्य में एक ढोल की आवाज उठती है, और फिर वायु महासूर्य तक जाती है, जो सभी सिद्धियों का घर है।
  2. फिर, मन के सुखों पर विजय प्राप्त करने से परमानंद सहज रूप से उत्पन्न होता है जो बुराइयों, पीड़ाओं, बुढ़ापे, बीमारी, भूख और नींद से रहित होता है।
  3. जब रुद्र ग्रंथी में छेद किया जाता है, और हवा भगवान के आसन (भौंहों के बीच का स्थान) में प्रवेश करती है, तब बांसुरी की तरह एकदम सही ध्वनि उत्पन्न होती है।
  4. मन और ध्वनि के मिलन को राज-योग कहा जाता है। (वास्तविक) योगी या योगिनी ईश्वर की तरह ब्रह्मांड का निर्माता और संहारक बन जाता है।
  5. इससे शाश्वत सुख प्राप्त होता है; यदि मुक्ति प्राप्त नहीं होती है तो मुझे परवाह नहीं है। यह सुख, जो ब्रह्म में अवशोषण से उत्पन्न होता है, राज-योग के माध्यम से प्राप्त होता है।
  6. जो लोग राज-योग से अनभिज्ञ हैं और केवल हठ-योग का अभ्यास करते हैं, वे, मेरी राय में, अपनी ऊर्जा बेकार बर्बाद करेंगे।
  7. मेरी राय में, भौंहों के बीच की जगह पर चिंतन करना, उन्मानी राज्य को जल्द पूरा करने के लिए सबसे अच्छा है। छोटी बुद्धि के लोगों के लिए, राज-योग में पूर्णता प्राप्त करने के लिए यह एक बहुत ही आसान तरीका है। नाद द्वारा निर्मित लया, तुरंत (आध्यात्मिक शक्तियों का) अनुभव प्रदान करती है।
  8. योगिश्वरस, जिन्होंने नाद पर ध्यान देकर समाधि में सफलता प्राप्त की है, उनके दिलों में जो खुशी बढ़ती है, वह वर्णन से परे है, और केवल श्री गुरु नाथ को ही पता है।
  9. एक मुनि अपनी उंगलियों से कान बंद करके जो आवाज सुनता है, उसे ध्यान से सुना जाना चाहिए, जब तक कि मन उसमें स्थिर न हो जाए।
  10. इस नाडा के साथ अभ्यास करने से, अन्य सभी बाहरी ध्वनियां बंद हो जाती हैं। योगी या योगिनी 15 दिनों के भीतर सभी विकर्षणों पर काबू पाकर खुश हो जाते हैं।
  11. शुरुआत में, सुनी जाने वाली आवाज़ें बहुत विविध और बहुत तेज़ होती हैं; लेकिन, जैसे-जैसे अभ्यास बढ़ता है, वे और अधिक सूक्ष्म होती जाती हैं।
  12. पहले चरण में, ध्वनियां गरजने लगती हैं, जैसे केटल ड्रम और जिंगल बजने वाली आवाजें सुनाई देती हैं। मध्यवर्ती अवस्था में, वे शंख, मृदंग, घंटियाँ, आदि द्वारा निर्मित की जाने वाली चीज़ों की तरह होती हैं।
  13. अंतिम चरण में, आवाज़ें टिंकलेट, बांसुरी, वीना, मधुमक्खी आदि से मिलती-जुलती होती हैं, इन विभिन्न प्रकार की आवाज़ें शरीर में उत्पन्न होने के रूप में सुनाई देती हैं।
  14. हालांकि गरज, केटल ड्रम आदि जैसी तेज आवाजें सुनाई देती हैं, लेकिन सूक्ष्म ध्वनियों के साथ भी अभ्यास करना चाहिए।
  15. सबसे ऊँचे को छोड़कर, सूक्ष्म को ऊपर उठाते हुए, और सूक्ष्म को छोड़कर, सबसे ऊँची आवाज़ को उठाते हुए, इस प्रकार अभ्यास करने से विचलित मन कहीं और नहीं भटकता है।
  16. जहां भी मन सबसे पहले जुड़ता है, वह वहीं स्थिर हो जाता है; और जब वह उसमें लीन हो जाता है।
  17. जैसे मधुर रस पीकर मधुमक्खी, फूल की गंध की परवाह नहीं करती; उसी तरह नाद में लीन मन, आनंद की वस्तुओं की इच्छा नहीं करता है।
  18. मन, आनंद के बगीचे में भटकने की आदत वाले हाथी की तरह, अनाहत नाडा के तेज गोड द्वारा नियंत्रित होने में सक्षम है।
  19. नाडा के जाल में फँसा हुआ मन अपनी सारी गतिविधि छोड़ देता है; और, कटे हुए पंखों वाले पक्षी की तरह, एक ही बार में शांत हो जाता है।
  20. जो लोग योग के साम्राज्य के लिए इच्छुक हैं, उन्हें अनाहत नाद सुनने का अभ्यास करना चाहिए, जिसमें मन एकत्रित हो और सभी चिंताओं से मुक्त हो।
  21. मन को पकड़ने के लिए नाडा एक जाल है; और, जब इसे हिरण की तरह पकड़ा जाता है, तो इसे भी उसी तरह मारा जा सकता है।
  22. नाडा घोड़े (योगियों और योगिनियों के दिमाग) के लिए स्थिर दरवाजे का बोल्ट है। योगी या योगिनियों को नाद ध्वनियों को सुनने के लिए लगातार अभ्यास करने का निश्चय करना चाहिए।
  23. मन को कैल्सीनयुक्त पारे के गुण मिलते हैं। इसकी अस्थिरता से वंचित होने पर इसे शांत किया जाता है, नाडा के सल्फर के साथ मिलाया जाता है, और फिर यह उसी तरह सहायताहीन आकाश या ब्रह्मा में घूमता है।
  24. मन एक नाग की तरह है, नाडा सुनकर अपनी सारी अस्थिरता भूल जाता है, वह कहीं भी नहीं भागता है।
  25. लकड़ी पकड़ने वाली आग उसके साथ (उसे जलाने के बाद) बुझ जाती है; और इसलिए मन भी, नाद के साथ काम करते हुए, उसके साथ अव्यक्त हो जाता है।
  26. एक हिरण की तरह अंतकरण (मन) घंटियों आदि की आवाज सुनकर अवशोषित और गतिहीन हो जाता है; और फिर एक विशेषज्ञ धनुर्धर के लिए इसे मारना बहुत आसान हो जाता है।
  27. ज्ञानी जब इसे सुना जाता है तो अनाहत ध्वनि के बीच में प्रवेश कर जाता है, और मन ज्ञानी के बीच में प्रवेश कर जाता है। मन वहीं लीन हो जाता है, जो सर्वव्यापी, सर्वशक्तिमान भगवान का आसन है।
  28. जब तक आवाजें जारी रहती हैं, तब तक आकाश का विचार रहता है। जब वे गायब हो जाते हैं, तब इसे पारा ब्रह्मा, परमात्मन कहा जाता है।
  29. नाद के रूप में जो कुछ भी सुना जाता है, वह शक्ति (शक्ति) है। जो निराकार है, तत्वों की अंतिम अवस्था है, वह परमेश्वर है।
  30. हठ की सभी विधियाँ राजा-योग में सफलता प्राप्त करने के लिए हैं; क्योंकि, जो पुरुष या महिला राजयोग में अच्छी तरह से स्थापित है, वह मृत्यु पर विजय प्राप्त करता है।
  31. तत्वा बीज है, हठ खेत है; और उदासीनता (वैराग्य) जल है। इन तीनों की क्रिया से, लता उन्मानी बहुत तेजी से पनपती है।
  32. हमेशा नाद के साथ अभ्यास करने से पापों के सभी संचय नष्ट हो जाते हैं; और मन और वायु निश्चित रूप से रंगहीन (परमात्मन) में अव्यक्त हो जाते हैं।
  33. ऐसा व्यक्ति शंख और दुन्दुभी का शोर नहीं सुनता है। उन्मानी अवस्था में होने के कारण, उनका शरीर लकड़ी के टुकड़े की तरह हो जाता है।
  34. इसमें कोई संदेह नहीं है कि ऐसा योगी या योगिनी सभी अवस्थाओं से, सभी चिंताओं से मुक्त हो जाता है, और एक मृत की तरह रहता है।
  35. वह मृत्यु से निगल नहीं जाता है, वह अपने कार्यों से बाध्य नहीं होता है। योगी या योगिनी जो समाधि में लगे हुए हैं, उन पर किसी का दबदबा नहीं है।
  36. समाधि में लगे योगी या योगिनी को न तो गंध, स्वाद, रंग, स्पर्श, ध्वनि महसूस होती है और न ही वह स्वयं के प्रति सचेत रहती है।
  37. जिसका मन न तो सो रहा है, जाग रहा है, याद कर रहा है, स्मृति से वंचित है, गायब है और न ही प्रकट हो रहा है, वह मुक्त हो जाता है।
  38. वह या वह न तो गर्मी, ठंड, दर्द, खुशी, सम्मान और न ही अनादर महसूस करता है। ऐसा योगी या योगिनी समाधि में लीन रहता है।
  39. वह व्यक्ति, जो जागते हुए, सोए हुए व्यक्ति की तरह दिखाई देता है, और बिना किसी प्रेरणा और समाप्ति के, निश्चित रूप से स्वतंत्र है।
  40. समाधि में लगे योगी या योगिनी को किसी भी उपकरण द्वारा नहीं मारा जा सकता है, और वह प्राणियों की नियंत्रण शक्तियों से परे है। वह मंत्रों और आकर्षण की पहुंच से बाहर है।
  41. जब तक प्राण मध्य चैनल में प्रवेश नहीं करता और प्रवाहित नहीं होता है और प्राण की गतिविधियों के नियंत्रण से बिंदू दृढ़ नहीं हो जाता है; जब तक मन बिना किसी प्रयास के ब्रह्मा का रूप धारण नहीं करता है, तब तक ज्ञान और ज्ञान की सभी बातें एक पागल पुरुष या महिला की निरर्थक बड़बड़ाहट मात्र हैं

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. हठ योग प्रदीपिका
    1. हठ योग प्रदीपिका प्रथमोपदेशः
    2. हठ योग प्रदीपिका द्वितीयोपदेशः
    3. हठ योग प्रदीपिका तृतियोपदेशः
    4. हठ योग प्रदीपिका चतुर्थोपदेशः

बाहरी कडियाँ[सम्पाद्यताम्]