पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
कुमारसम्भवे ।


एवं वाच्यः स कन्यार्थमिति वो नोपदिश्छते ।
भवखणौतमाचारमामनन्ति हि साधवः ॥ ३१ ॥
आर्याप्यरुन्धतौ तत्र व्यापारं कर्तुमर्हति।
प्रायेणैवंविधे कार्ये पुरन्ध्रोणां प्रगल्मता ॥ ३२ ॥
तप्रयातौषधिप्रस्थ सिद्धये हिमवत्पुरम् ।
महाकोशीप्रपातेऽस्मिन् सङ्गमः पुनरेव नः ॥३३॥

प्रतिष्ठावता भुवो धुरं भारमुद्वहता। निर्वाहकेणेत्यर्थः । तेन हिमवता योजिताः सटितः सस्वन्धो यौनसम्बन्धो यस्य तं मामप्यवञ्चितमष्यामोहितं वित्त आनीौत । ‘विद ज्ञाने' इति धातोर्लट् ॥ ३० ॥

 तर्हि स किं वाच्य इत्याशयाश्च--

 एवमिति । कन्यार्थे कन्याप्रदानाय स हिमवानेवं वाच इति वो युध्यभ्यं न उपदिश्यते । कुतः । वि यस्मात् साधव विद्वांसो भवतिः प्रणतं स्मृतिरूपेण निबडमाचारमाभमन्ति उपदिशन्ति । न हि स्खयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥ ३१ ॥

 आर्येति । आर्या पूज्यारुन्धत्यपि तव विवाह कृत्य ब्यापारं साहाय्यं कर्तुमर्हति । तथाहि। प्रायेण प्रचुर्येणैवंविधे कार्य विवाहादिकायं । दुर्घट इत्यर्थः। पुरन्ध्रीणां कुटुम्बिनीनाम् ॥ स्वासु कुटुम्बिनौ पुरन्ध्रि” इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीगणमेव घटनापाटवमिति भावः ॥३२॥

 तदिति । तत्तस्मात् कारणादोषधिप्रस्थं नाम हिमवत्पुर हिमवन्नगरं सिद्धये कार्यसिद्धार्थं प्रयात गच्छत । अस्मिन् पुरोवर्तनि महाकोशी नाम तत्रत्या काचिद तस्याः प्रपाते! भूमावेव । सा नदौ यम पतति तस्मिन्नित्यर्थः । प्रपातस्वतटो भृगुः” इत्यमरः । नऽस्माकं पुनः सङ्गमः । अल्विति शेषः। भवसमागमं प्रतिपालयमिव निवत्स्यामीत्यर्थः ॥ ३३ ॥