पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
षष्ठः सर्गः ।

अन् संयमिनामाद्य जाते परिणयो (८)मुख ।
अहुः परिग्रहग्नौड़ां प्राजापत्या(९)स्तपखिनः ॥३४॥
ततः (१)परममित्युक्वा प्रतस्थ मुनिमण्डलम्।
भगवानपि संप्राप्तः प्रथमोद्दिष्ट(२)मास्पदम् ॥३५॥
३) ते चाकाशमसिश्याममुत्पत्य परमर्षयः।
भासदुरोषधिप्रख' मनसा समरंहसः ॥ ३६ ॥
अलकामतिवा(४)चैव वसतिं वसुसम्पदाम् ।

 तस्मिन्निति । संयमिनां योगिनामा तमिनीखरे परिषयोन्मुखे विवाहोत्रसुके जाते सति प्रजापतेरिमे प्राजापत्याः । जपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पीभिर्घडाम्। गार्हस्थ्यनिमित्तमित्यर्थ: । ‘पत्नीपरिजनादानमूलशापाः परिग्रह। जहुस्तत्यजुः

’ इत्यमरः । जहृतेर्लिटि रुपम् ।

न हि समानगुणदोषेषु व्रडागमोऽस्तीति भावः ॥ ३४ ॥

 तत इति । ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममिति उ ओोमिति उक्। अनुमन्येत्यर्थः । अव्ययमेतत् ॥ “पोमेवं परमं मतम्’ इत्यमरः । प्रतस्य । भगवान् खरोऽपि प्रथमोद्दिष्टं पूर्वसङ्गतितमाअदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥ ३५ ॥

 त इति । मनसा समरंहसो मनस्तुस्थवेगास्ते परमर्षयत्र पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवत् श्यामं गौतमाकाशं खं प्रति उत्पत्य ओषधिप्रस्वं हिमवत्पुरमासेदुः । सद्यः प्रापुरित्यर्थः ॥ ३६ ॥

 इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-----

 अलकामिति । वसुसम्पदां धनसमृद्वीणां वसतिं स्वाग-


(८) उत्सुके। (९) तपोधनाः। (१) प्रमाणम् । (२) आश्रमम् । (३) अथ। (४) इव ।