पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
नृसिहप्रसादे

कमङ्ग नत्र क्षेत्र दैघिऊ दशमं स्मृतम् ।
यात्रास्वेकादशं प्रोव पुष्ट्यर्थं द्वादशं स्पृतम् ” ।

इत्येते द्वादश भेदास्तेष्वेवान्तर्भूता इति माधवाचार्यः । पृथगेवेंते

इति स्मृतिरत्नावलीकारा.-तलक्षणमाह पारस्कर –

‘अहन्यहनि यच्छुद्धं तनित्यमिति कीतितम् ।
वैश्वदेवविहीनं तु अशक्तावुदकेन तु ॥
एकोद्दिष्टं तु यच्छद्रं तन्नैमित्तिकमुच्यते ।
तदष्यदैविकं देयमयुग्मानाशयेद् द्विजान्” ॥

काम्यमभिलषितार्थसिद्धयर्थमनुष्यमानम् । पुत्रजन्मविचा

हादौ क्रियमाणं वृद्धिश्राद्धमित्युच्यते । सपिण्डीकरणं सपिण्डनम् ।
प्रतिपर्व क्रियमाणं पार्वणम् । गङ्चामिति गोठे क्रियमाणम् ।
तदाह वृद्धवशिष्ट

‘अभिप्रेतार्थकं काम्प श्रद्धं पार्वणकं स्मृतम् ।
पुत्रजन्मविघाहादौ वृद्धिश्राद्धमुदाहृतम् ।
नवानीतार्घपात्रं च पिण्डं च परिकीर्तितम् ।
पिण्डपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ।
नवानीतार्घपात्रमिति निरन्तरनेतार्थ पात्रमिति यावत् ।

पिण्डशब्दस्तूभयलिङ्गः । इत् पिण्डं पततीति प्रयोगदर्शनात् ।

प्रतिपर्व भवेद्यस्मात् तेन स द्विजसमैः ।
प्रोच्यते पार्वणश्राद्धं मासिकं कैश्चिदिष्यते ॥
मासि मासि भवं मासिकमिति यावत् ।
“गोष्टया यत् क्रियते अद्वै गोष्ठीश्राद्धं तदुच्यते ।