बहूना विदुषां प्राप्त सपात्र पितृतृप्तये ।।
यतो बहूनां विदुषां यत् श्राद्धस्य जीवने अस्थिते पृथकूपाकसाधन
सामग्रीरहिताना तीर्थेऽनुनप्ताना श्राद्धकरणयुक्ताना द्रष्टव्यमिति ।
‘यथाशक्त्याऽभिरूपाणां ब्राह्मना च भोजनम् ।
शुद्धर्थमिति तत् प्रोक्तं श्राद्धं पार्वणचत कृतम् ।
शुद्ध्यर्थम् । अभिरूपपदं पूर्व व्याघ्नम् । कर्माङ्गमिति यागादौ
क्रियमाणम् । दैविकमिति देवनुद्दिश्य क्रियमाणम् । यात्राश्राद्ध
मिति विनिर्गमनसयये क्रियमाणम् । तदाह पारस्कर
‘निषेककाते सोमे च सीमन्तोन्नयने तथा ।
यं पुंसवने श्राद्धं कर्माङ्ग वृद्धिवत् कृतम् ।
प्रतिपत्स्यर्थम् । चशब्देन जातकर्मादिकेवलपुरुषसंस्कारगुणो लभ्यते।
सोमग्रहणं दर्शपूर्णमासाद्यर्थम् । वृद्धिवदित्यनेन नवदेवत्यम् ।
“देवानुद्दिश्य क्रियते यत्स दैविकमुच्यते ।
हविष्येण विशिष्टेन द्वादश्यादिषु यत्नतः ।
एतदेव तस्य विशिष्टत्वं यत् पायसधूतशर्करादध्यादियुक्तत्वम् ।
द्वादशी दशम्यादितिथीनुपलर यति । आदिशब्दो भानुवारदीन् ।
‘गत्वा देशान्तरं यस्तु श्राद्धं कुर्यातु सर्पिषा ।