पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


९६
नृसिहप्रसादे

यात्रार्थमिति तत् त्रोक्तं प्रदेशे च न संशयः। ।

गत्वा देशान्तरमिति यद्यपि अविशेषेणाश्रावि तथापि

स्मृत्यन्तरोक्तविशेषदर्शनेन सामान्यं विशेषे उपसंहियते। तदुक्तम्

उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ’ इतेि ।

गयेत्युपलक्षणं सिहस्थगोदायात्रादेः । ततश्च गयाद्यर्थं ।

गच्छतो नेतरत्रति परिसंख्यया व्याख्यया परितोषः। इदं च श्राद्ध
मत्यने विशदतरमुपपादयिष्यते । सपिधति केवलेन तेनैव द्विजवृतेरु
सादयितुमशक्यत्वात् । अतस्तद्युक्तं कर्तव्यमित्यर्थः । क्रियमाण
मत्र श्राद्धे नवदेवत्य कर्तव्यम्। निर्गमे च गयाया प्रवेशे च कर्तव्यम्।

शरीरोपचये श्राद्धमथपचय एव वा ।
पुष्ट्यर्थमिति यत् प्रोक्तं श्राद्धं पार्वणवत् कृतम् ।

शरीरोपचय इति तदुपचयार्थं रसायनाद्युपक्रमे तदुपचये वा

जाते रसायनौषधादेः सिद्धौ जातायां वा । अर्थागमे वा जाते इति ।
अथोपचये महालाभे निधिरूप्यादिलाभ इति यावत् ।
तत्र विष्णुधर्मोत्तरे

“दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः इति ।

देवर्षिसिद्धतापसादिसेवितमुदकं तीर्थमित्यभिधीयते । गो

मयादिनोपलेपो भूसंस्कारः । आदिशब्देनाशुचिद्रव्यापसारणम् ।
तदुक्तं मनुनाऽपि । ‘शुचिदेशे विविक्तं तु गोमयेनोपलिप्य च ।
१६