पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
नृसिहप्रसादे

कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदेविकमिति मरीचि
स्मरणात् । तत्रासनं संस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्म
णमुपसङ्गृह्य समाध्यमिति चोक्त उपविशेत् इति ।

“‘जान्वालभ्य ततो देवानुपवेश्य ततः पितृन् । ।
समस्ताभिव्यंहतिभिरासनेषुपवेशयेत् ।

इति धर्मस्मरणात् ।

एते नियमैर्युक्तास्तिष्ठेयुः

‘‘पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पृष्टं वर्जयन्तः परस्परम्"

इति वशिष्ठस्मरणात् । मौनिता च ब्रह्मोद्यकथाव्यतिरिक्त

विषया ।
“ब्रह्मोद्यश्च कथाः कुर्युः पितृणामेतदीप्सितम्” इति
वचनात् ।
ब्राह्मणेषुपविष्टेषु यतिब्रह्मचारिणौ यद्यागच्छेतां तदा तावष्णु
पवेशनीयौ ।

‘ब्राह्मणं भिक्षुकं चापि भोजनार्थमुपस्थितम् ।

ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत्’ इति मनुस्मरणात् ।

तथा यमोऽपि --

“भिनुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेदिति ।

तथा छागलेयः

“पूजयेच्छुद्धकालेऽपि यति सङ्गचारिणः ।