पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
नृसिहप्रसादे

पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।

ततः केचित्-श्रद्धभूमौ सिद्धार्थकाः गौरसर्षपा निक्षेपणी

य इत्याहुः ।

सिद्धार्थकान् क्षिपेद भूमौ रक्षसामपनुत्तये

इति वचनात् ।

ततस्तिलान् सर्वदितु विकिरेत् । तत्र मन्त्रः--

निहन्मि सर्वं यदमेध्यमत्र हताश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचगुह्यका हता मया यातुधानाश्च सर्वे इति ।

तदुक्तं निगमै-"त्रपहता इति तिलान् विकिरेदिति । मन्त्रस्तु

अपहता असुरा रक्षार्थसि वेदिषदः इति । स्धूयन्तरे विशेष उक्तः

“अग्निष्षाचाः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्थिताः ॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः।
रक्षोभूतपिशाचेभ्य स्तथैवासुरदोषतः ॥
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे" इति ।

अथासनम्। शासनं च ब्राह्मणहस्ते उदकदानपूर्वकं कर्तव्यम्।

"पाणिप्रक्षालनं कृत्वा विष्टरार्थान् कुशानपि।। इति योगिस्म
रणात् ।
तथा
‘कुरुष्वेति स तैरुक्तो दद्यदर्भासनं तथा" इति पुराणेषु स्मरं
णात् । शासनं चासने देयम् । तदुक्तम्

“श्रासने चासनं दद्याद्वामे वा दक्षिणेऽपि वा" इति ।