पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्णीरागरुपङ्कन्यनुलेपनार्थ इति विष्णुक्तरोन्याऽस्मदुक्तरीत्य च
कर्तव्यः । पुष्पाणि जतीमल्लिकाश्वेतपृथिकाजलजचम्पक्रमश्रु
तीनि प्रागेवाभिहितानि ।

गन्धादिदानस्योदकपूर्वकता योगिना दशता ।

‘दत्वोदक गन्धदान धूपदानं सदीपकम्’’ इति । एवमसन

दानप्रभृत्याच्छादनपर्यन्त चैश्वदेविकार्चनं काण्डानुसमयेन वि
धाय आसनप्रभृत्याच्छादनपर्यंन्त प्राचीनावीत्यपस येन कुर्यात् ।
‘‘अपसव्यं ततः कृत्वा पितृणामप्रदक्षिमिति याज्ञवल्क्य
स्मरणात् । तथा

“उदङ्मुखस्तु देवाना पितृणा दक्षिणामुखः ।

प्रदद्यात्पार्वणे सर्व दैवपूर्व विधानतः" इति शातातपस्मार

णात् । तस्माद्वैश्वदेविकमासनाच्छादनान्तं कर्मकलायं काण्डानुस
मयेन विधाय पैतृकमासनाद्याच्छदनान्तं कर्म कर्तव्यमिति सिद्धम् ।
ननु दैवे पित्र्ये च शासनप्रभृभ्यच्छादनपर्यन्तानां पदद्या
नां पदार्थानुसमयेनानुष्ठानं सम्भवति, कस्य हनाः कडानु
समयेनानुष्ठानमङ्गोक्रियते । पदार्थानुसभयेन हि प्रधानप्रत्यासत्ति
स्तेषा भवेत् वैषम्याभावश्च । एवमनङ्गकारे हि केषा चित्
प्रधानप्रत्यासत्तिः केषां चित्प्रधानाप्रत्यासत्तिरिति । अत्राभिधीयते
शासनावाहनाध्यंदिपदार्थेषु काण्डानुसमय एवाभ्युपेयते वचन
बलात् । स्पष्टपत्र ‘‘अपसव्य ततः कुत्वेति वाचनिकत्वं ततो
चैश्वदेविकासनादिपदार्थाना काण्डानुसमयानुष्ठाने पित्रर्चनविधाव
पि काण्डाङसमय एव ज्यायान् ।